________________
श्रीप्रवचन- परीक्षा विश्रामे ॥८ ॥
श्रावकेण धर्मस्त्ववश्यं कर्त्तव्य एव, स चानन्यगत्या जिनभवनादिविधापनादिलक्षणो द्रव्यस्तव एव, यदागमः-"अकसिणपवत्त- पृथिव्यागाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे दब्वथए कूवदिटुंतो॥१॥"त्ति(आव० भा०)स च द्रव्यस्तवः पृथिव्याद्यारम्भ- द्यारंभस्य मन्तरेणासंभवीत्यनन्यगत्या तदारम्भोऽल्पव्ययकल्पः, ज्ञानादिलाभस्तु महालाभकल्पः, ननु तत्र ज्ञानादिलाभः कथमितिचेच्छृणु,
अनन्यगति
कृता चैत्यनमस्कृतिनिमित्तमागता हि साधवो धर्मदेशनादिकमपि प्रयच्छन्ति, ततो ज्ञानादिलाभः, प्रतिमादर्शनात्तीर्थकरस्मरणेनार्द्रकुमादेवि जातिस्मरणेन वा दर्शनलाभः, चारित्रलाभस्तु साधूपदेशाजातिस्मरणादिना वा प्रतीत एव, अतस्तत्र पृथिव्याद्यारम्भोऽल्पः, सोऽपि सदारम्भतयाऽष्टकादौ श्रीहरिभद्रसूरिभिर्भणितः, यतो गृहस्थो ह्यारम्भपरिग्रहादिध्यानकलित एव स्यात् , तत्रापीन्द्रियपोषनिमित्तमारम्भोऽसदारम्भो, जिनपूजादिधर्मध्यानसंयुक्तस्तु सदारम्भ इति स्वयमेव पर्यालोचय, आयव्ययतुलनया ज्ञानादिलाभाद्यपेक्षया पृथिव्याघारम्भसंभवं पातकमकिञ्चित्करमेव,यस्तु पृथिव्याघारम्भपातकभीत्या जिनपूजादिकं परित्यजति स च गद्याण| कव्ययभीत्या मेरुगिरिसन्निभं सुवर्णपुलं परिहरतीतिबोध्यम् , एतेनानन्यगत्याऽप्यारम्भो न युक्त इति शङ्कापि व्युदस्ता, यतो यदि प्रत्याख्यातसर्वसावद्यानामपि साधूनां ज्ञानाद्यर्थमनन्यगत्या पृथिव्याद्यारम्भो न प्रत्याख्यानभङ्गहेतुः, नद्याद्युत्तरणानन्तरं पुनर्महाव्रतारोपणापत्तेः, किंतु निर्जराहेतुरिति जिनाज्ञा, कथं तर्बप्रत्याख्यातपृथिव्याद्यारम्भाणां श्रावकाणां जिनभवनादिनिर्मापणादौ पृथिव्याद्यारम्भसंकल्पो नानल्पार्थहेतुरपि, अत एवान्यत्रारम्भवतो जिनोपदिष्टधर्मकृत्येष्वारम्भादिविकल्पो बोधिबीजनाशहेतुः, यदुक्तं-"अण्णत्थारम्भवओ धम्मेऽणारम्भओ अणाभोगो। लोए पवयणखिंसा अबोहिबीअंति दोसा य ॥१॥"(१५६)इति श्रीहरिभद्र-15
॥८ ॥ सरिकृतपूजापञ्चाशके, एतद्वृत्तिर्यथा अन्यत्र-अधिकृतस्नानादेरपरत्र-विविधदेहगेहादिकर्मस्वारम्भवतो भूतोपमर्दकारिणः सतो देहिनो