SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥८३॥ SONGKONG«O?G«0%GOLF;0%50% त्पतनं कृतम्, एतेषु यथासंभवमभिगमनवन्दन पूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति श्रीआ० टीकायां शत्रुञ्जयमाहात्म्ये च ' यावद्भरतचक्रवर्त्तिनः सङ्घपतित्व' मित्यादि सुव्यक्तमेव, नच शत्रुञ्जयमाहात्म्यमस्माकमसम्मतमिति वाच्यं, तव |सम्मतासम्मत विचारोऽस्माकमकिश्चित्कर एवेति प्रागेव दर्शितः, किंच - शत्रुञ्जयमाहात्म्यादेरसम्मतत्वं कुत इत्युक्ते प्रकरणत्वादेवेति तव वचः 'ननु जहा से सामाइआण' मितिगाथयैव प्राक् तिरस्कृतम्, अग्रे च प्रकरणादीनां प्रामाण्ये सिद्ध एवाङ्गोपाङ्गादीनां प्रामाव्यमितिवक्ष्यते, अन्यथाऽमुकनामसूत्रममुकनाम्ना सातिशयेन निरतिशयेन वा साधुना कृतमित्येतावन्मात्रस्यापि सम्यग् निर्णयानुत्पतेरितिगाथार्थः ॥ ७२ ॥ अथ लुम्पकेनाज्ञावशात् प्रतिमोत्थापनाय 'से बेमी' त्यादि लुम्पकमतमन्त्रबीजकल्पं निर्घोष्यमाणमुद्भाव्य दूषितमपि तस्य पारमार्थिकखरूपं गाथाषट्रेन विभणिषुः प्रथमगाथामाह से बेमि जे अतीआ इचाइ अपढमअंगवयणेणं । गुरुपारतंतवयणं वत्तव्वं न उण समईए ॥ ७३ ॥ 'से बेमि जे अतीआ जे य पडुप्पण्णा' इत्यादिकप्रथमाङ्गवचनेन - श्री आचाराङ्गगतालापकेन गुरुपारतन्त्र्यात् - श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परागतगुरूपदेशाद्वक्तव्यं सूत्रतोऽर्थतश्च, येन प्रकारेण सद्गुरुणोपदिष्टं तेनैव प्रकारेणान्येभ्यो वक्तव्यं, न पुनः स्वमत्यानिजविकल्पितबुद्ध्या, एतदपेक्षयेत्थं सुन्दरं दृश्यते इति कल्पनापुरस्सरं न वक्तव्यं, तस्य सुन्दरस्याप्यसुन्दरत्वाद्, यदागमः - "अप्पा - गमो किलिस्सा जइवि करेइ अइदुकरं तु तवं । सुन्दरबुद्धीइ कयं बहुअंपि न सुन्दरं होई" ति ॥ ४१४ ॥ श्रीउप०, असुन्दरत्वं च ज्ञानादिशून्यत्वाद्, यदागमः - " विसोहिअंते अणुकाहयंते, जे आयभावेण विआगरेजा। अठ्ठाणिणो हुंति बहुगुणाणं, जे णाणसंकाइ मुसं वइज || १ || "ति (५५९* ) श्रीसूत्रकृदङ्गे इतिगाथार्थः ॥ ७३ ॥ अथ गुरुपारतन्त्र्यात्कीदृशोऽर्थस्तमाह TRONGHONGKONGKHOONGKOK GHOL पूजासिद्धि: ॥८३॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy