________________
पूजासिनिक
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥८४॥
गुरूपरतंता अत्यो वित्तीए अण्णउत्थिआविकखो । नारंभंऽवहिगिचा जिणपवयणधम्मकजेसु।७४॥
गुरुपारतन्त्र्यात्तौ-तट्टीकायामन्यतीर्थिकापेक्षोऽर्थः नारम्भमप्यधिकृत्य जिनप्रवचनधर्मकार्येषु, तुर्गम्यः, न तु जैनप्रवचने यानि धर्मकृत्यानि तेषु य आरम्भस्तमप्यङ्गीकृत्य “सम्वे पाणा भूआ" इत्यादि सूत्ररचनेति भाव इतिगाथार्थः ॥७॥ अथ जैनदाधर्मानुष्ठानारम्भमधिकृत्य नोक्तमित्यत्र व्यायैव समर्थयन्नाह| तं नत्थि किंचि कज्जं हविज जं सम्वहा वयाभावे । आयं वयं तुलिज्जा लाहभिलासित्ति ववहारो ॥७५॥ तत्किचित्कार्य नास्ति-लोके लोकोत्तरे च मार्गे तत्किमपि कार्य नास्ति यत्सर्वथा व्ययाभावे सति स्यात् , यत्किमपि महदणु वा | कार्य कुवतः कार्यानुसारी व्ययो भवत्येव, नाचारिताया धेन्वा दुग्धाकाङ्क्षी समीहितफलभाग् भवेद् , आस्तामन्यत् . सुवर्णस्थापि क्रयविक्रयादिव्यवहारे कषोपलसंघर्षणादिना किंचिन् न्यूनत्वभवनं विक्रेत्रादीनां सम्मतमेव,न पुनस्तावन्मात्रव्ययभीत्या तथा| व्यवहारासंभवः, संभावितलाभापेक्षया तस्याल्पत्वाल्लाभोऽपि तत्पाते यावानवतिष्ठते तावानेव सर्वसम्मतः, तस्मारिक कर्तव्यमित्याह'आय'ति लाभाभिलाषी-लाभार्थी आयं-लाभं व्ययं च-तदपगमं तोलयेत्-तुलायामारोपयेत् , तुलारोपितं हि वस्तु गुरुलध्वादि| निर्णयारूढं भवति तथाऽयमपि कियान् व्ययः संपन्नः? कियांश्चायः एवं चायाद्ययः पात्यते यदुद्धरति तल्लाभो मन्यते, नो चेदुभयाभावः, यदि मूलादपि किंचिदादाय याति तदा मूलक्षितिः, आद्यो विकल्पः शोभनो, नान्त्यो, तथैव जगद्व्यवहारादित्यमुना प्रकारेण जगद्व्यवहारः, अयं भावः-यथा विक्रेतव्यवस्तुनः षोडशोऽशो लाभस्तस्यापि षोडशोऽशो व्ययः, शेषास्तु षोडशांशस्य पञ्चदशांशा लाभीभूताः स्वनिर्वाहहेतव इति जगत्प्रवृत्तिः,न पुनर्लाभांशस्थापि षोडशोऽशो यास्यतीति भीत्या तळ्यापारो न उचितः
PROHOROPOKHOSHO
॥८॥