________________
भीप्रवचन
परीक्षा
प्रतिमाप्रासाद
८ विश्रामे
॥८॥
च निष्कारणकार्यसंपत्तिरसंभविनीत्यनन्यगत्या लुम्पक एवानार्यवागितिगाथार्थः ॥६७ ॥ अथ प्रकारान्तरेण प्रश्नमाहजा एवं हरिहरपडिमाभत्तो सिवधम्मिओ य जिणधम्मी। अहवा उभयपभट्टो पुच्छेअव्वो अ पडिमरिऊ ॥६८॥
एवं-प्रागुक्तप्रकारेण हरिहरप्रतिमाभक्तः शैवधार्मिक उत जैनधार्मिकश्चेति, चः समुच्चये, अथवोभयभ्रष्टः-जैनधर्मशैवधर्मवाद्य इति प्रतिमारिपुः लुम्पकः प्रष्टव्यः, एवं प्रश्ने कृते लुम्पको मूकाभो भवति उभयपाशाद् , उभयपाशस्त्वेवं-यदि भणति शैवधार्मिक |एव हरिब्रह्मादिप्रतिमाभक्तो भवति तदा जैनधार्मिको जिनप्रतिमाभक्तः, तदतिरिक्तो लुम्पको न जैनधार्मिकः, अथ भणति जैन
धार्मिको हरिहरादिप्रतिमाभक्तस्तर्हि शैवधार्मिकोऽपि जिनप्रतिमाभक्तः संपद्येत, एतच्च सर्वजनप्रतीतिबाधितं वक्तुमप्ययुक्तं, लुम्पकस्य |च हरिहरादिप्रतिमाराधनं प्रसज्येत, अन्यथा तस्यैवाजैनत्वापत्तेरित्युभयथाऽपि पाश एवेत्यनन्यगत्या हरिहरादिप्रतिमाभक्तशैवव| जिनप्रतिमाभक्त एव जैनो, नान्य इति सिद्धमितिगाथार्थः ॥६८।। अथ पुनरप्यनन्यगत्या प्रसाधनाय प्रश्नमाह
अह बहुवित्तवएणं कज्जं धम्मस्स धम्मबुद्धीए । कुज्जा निअनिअमग्गे मंदमई किंव तिव्वमई। ॥ ६९॥
अथेति परं प्रति प्रश्ने, ननु भो लुम्पक ! निजनिजमार्ग-शैवजैनादिमार्गे धर्मबुद्ध्या बहुवित्तव्ययेन धर्मस्य कार्य निजनिज|मार्गे मन्दमतिः कुर्यात् किं वा तीव्रमतिरितिगाथार्थः ॥१९॥ अथ प्रागुक्तप्रश्ने प्रथमविकल्पेऽतिप्रसङ्गमाह
पढमविगप्पो तुच्छो पच्चकखं जेण मिच्छपमुहेहिं। जिणपासायप्पमुहं णो दीसइ कारिअं किंची ॥७॥
'प्रथमविकल्पः' निजनिजमार्गे मन्दमतिरेव बहुवित्तव्ययेन-लक्षादिसंख्याद्रव्यव्ययेन धर्मबुद्ध्या धर्मकार्य कुर्यादितिलक्षणः तुच्छा-असारः, श्रोतजनस्यापि कर्णशूलकल्पः, तत्र हेतुमाह-'जेणं'ति येन कारणेन मिथ्याशब्देन मिथ्यादृष्टयो छेयाः, मिथ्या
FIDIGHIOIGHONGKONG
॥८
॥