SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ IONS ONGHONDORE श्रीप्रवचन 110011 यदागमः- “पढमं णाणं तओ दया, एवं चिठ्ठइ सव्वसंजए । अण्णाणी किं काही? किं वा नाहीअ छेअपावगं १ ।। १ ।।" (४१) ति परीक्षा दशवै०, तत्परिज्ञानं गुर्वायत्तं, यदागमः - " सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं । उभयंपि जाणई सुच्चा, जं छेअं तं समायरे ॥१॥" ८ विश्रामे (४२*) त्ति अत्र श्रुत्वेत्युक्तं, न पुनः पुस्तकादिषु दृष्ट्वेत्यपि, गुरुपार्श्वे श्रवणं च विनयादिना भवति, विनयेन यच्छ्रतमवाप्यते तत्सूत्रनिर्युक्तिभाष्य वृत्तिप्रकरणादिभिः समुदितमेव, अन्यथा बहुश्रुतत्वासंभवाद्, यदागमः “जहा से सामाइ आणं, कुठागारे सुरखिए । णाणाधण्णसंपुण्णे, एवं हवइ बहुस्सुए || १ || " ( ३५२) त्ति श्रीउत्तराध्ययने बहुश्रुतपूजाध्ययने, एतद्व्याख्यानं यथा - समाज:समूहस्तं समवयन्ति सामाजिकाः- समूहवृत्तयो लोकाः, केषां १ - कोष्ठा - धान्यपल्यास्तेषामगारं - तदाधारभूतं गृहमुपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं तथा सुष्ठु - प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितः - पालितो दस्युमूषिकादिभ्यः सुरक्षितः, स च कदाचनापरिपूर्णः स्यादित्याह - नाना - अनेकप्रकाराणि धान्यानि - शालिमुद्गादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः, सोऽपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवाङ्गोपाङ्गप्रकीर्णकादिमेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव स्यात् सुरक्षितश्च प्रवचनाधारतया, यत उक्तं- "जेण कुलं आयतं तं पुरिसं आयरेण रखिजा" इत्यादि, अथवा गुरुसमीपे श्रवणं त्रिधा भवति - सूत्रमात्रार्थ श्रवणं निर्युक्तिमिश्रितश्रवणं निरवशेषश्रवणं चेति, यदागमः - " सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ । तइओ अ निरवसेसो एस विही होइ अणुओगे ॥ १ ॥ ” (१ - ९०, ३ - २४ नि०, १२-९४)ति भगवत्यादौ, एवं सूत्रनिर्युक्तिभाष्यवृत्त्याद्युक्तकर्मबन्धकारणानि, चैत्यसङ्घाद्यनुकूलप्रवृत्त्या च प्राचीनकर्मारिहननादरिहन्तारो बभूवांसो भवन्ति भविष्यन्ति चेति सिद्धान्तवाद्यभिप्रायेणापि नामव्युत्पच्या जिनपूजा, एवं जिनशब्दव्युत्पन्याऽपि सिद्ध्यति जयति रागादिशत्रूनिति जिनः, DHOONYOO HONGHOSHOHORONGHODOHOR निर्वृति प्रकरण मान्यता ॥७७॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy