SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ कमोरिहन श्रीप्रवचनपरीक्षा ८ विश्रामे ॥७६॥ नार्थत्वे पूजादि स्तद्व्याख्यानं नियुक्त्यादिस्तत्प्रत्यनीकता-तदनिष्टाचरणे तत्परता, सा च लुम्पकमाश्रितानां युक्तैवेतिरूपेण स्वीकार्यतया सम्मता उतानन्तसंसारपरिभ्रमणहेतु साकमुचितेत्येवंरूपेण परिहार्यतया सम्मता?, आद्येऽस्मद्विलक्षणस्य लुम्पकस्य नियुक्त्यादेरनभ्युप| गमो युक्त एव, नद्येतावताऽस्माकं किंचिदनिष्टं, तदीयकुलस्यैव तथा स्वभावत्वात् , पायसं परित्यज्य विष्ठामिश्रं कचवरादिकं भक्षयति गर्ताशूकरे महतामपि खेदानुत्पादान , द्वितीयेऽस्माकमिव तवापि नियुक्त्यादिकं सिद्धान्ततया सम्मतमेव सिद्धं, तथा चाचाराङ्गटीकायां चैत्यादिकप्रत्यनीकता महापापहेतुत्वेन वर्णिता, तत्पूजाधुपघातोऽपि दीर्घस्थितिकमिथ्यात्वमोहनीयकर्मबन्धहेतुत्वेनानन्तसंसारित्वापादक इत्युक्तं, तत्परिहारेणैवारिहन्तृत्वसिद्धौ सिद्धा प्रासादप्रतिमापूर्वकमेव जिनपूजेति, किंच-चैत्यादिमहोत्सवनिमित्वं प्रवचनेऽमायुद्घोषणं प्रतीतं, यदागमः- "दव्वविमोक्खो निअलाइएसु खित्तंमि चारयाईसु । काले चेइअमहिमाइएसु अमघायमाईउ - | ॥१॥"(२५८)त्ति श्रीआचाराङ्गे विमुक्त्याध्ययननियुक्ती, एतद्वत्त्येकदेशो यथा-कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेष्वमाघाता| दिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन् वा काले व्याख्यायते सोऽभिधीयते इतिश्री आचा० टीकायां,अत्रैवं विचारणीयं-यदि | चैत्यादिमहिमा पातकं स्यात्तर्हि तदर्थममारिघोषणं व्यर्थ स्यात् , नहि कोऽप्युद्वाहादिमहोत्सवेष्वमारिघोषणं कारयन् श्रुतः श्रूयते | वा, किंच-जैनपुण्यमहोत्सवमन्तरेणामारिघोषणाद्यसंभवाद् , आस्तामन्यद्, अन्यतीथिकानां यागाद्युत्सवेषु बहुद्रव्यव्ययसंभवेऽप्य| मारिघोषणवार्ता तु जैनप्रासादप्रतिमाप्रतिष्ठाद्युत्सवदिनेषु तथा पर्युषणापर्बादिपर्वस्खेवोपलभ्यते, तस्साच्चैत्यादिमहोत्सवा धर्मचक्रवर्त्तिगृहे जायमानाजगजीवानन्दहेतवोऽपि मोहतस्करावष्टम्भगिरिदरीकल्पे लुम्पकगृहे मोहानुचराणां लुम्पकानां शोकहेतवो दृश्यन्ते, तस्माद्यत्रामारिघोषणं तज्जैनमहोत्सवादि बोध्यं, किंच-चैत्यसङ्घादिप्रत्यनीकता महापापमिति परिवानाभावेन त्यागस्यैवासंभवाद्, ॥७ ॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy