SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कारिक नार्थत्वे पूजादि श्रीप्रवचन- स्तद्धननाय समर्थो भवति, मिथ्यादृशामपि केवलज्ञानोत्पत्तिप्रसङ्गात् , नहि लोकेऽप्यन्नातोऽरिहन्तुं शक्यते,तसादाद्यो विकल्पोऽनपरीक्षा | वद्यः, तथा च प्रथमं ज्ञानावरणीयादिकर्मणां प्रकृतिस्थितिरसप्रदेशैर्बन्धखरूपमवगन्तव्यं,तत एवोदयोदीरणासत्ता भवन्ति, कर्मणां ८विश्रामे | हि बन्धः कारणमन्तरेणासंभवीति कारणं ज्ञात्वा ततो निवृत्तः पुनस्तथाविधकर्मबन्धरहितः कृशीभूतानि प्राचीनकर्माणि हन्तुं श-| I७४|| क्नोति, न पुनः प्रतिसमयं कर्मपुद्गलनिषेकहेतून कर्मबन्धकारणानि सेवमानोऽपि, नहि बलवानरिहन्तुं शक्यत इति लोकोक्तिरपि, कर्मबन्धकारणानि त्वेवं-मत्यादिज्ञानस्य साध्वादीनां ज्ञानिनां पुस्तकादे नसाधनस्य प्रत्यनीकतानिवनोपघातात्याशातनादिमिमानावरणीयदर्शनावरणीयलक्षणं मूलप्रकृतिद्विक बध्नाति, गुरुभक्तिक्षान्तिकरुणाव्रतयोगकषायविजयदानादिभिः सातवेदनीयकर्म | बध्नाति, एतद्विपरीतस्तु असातमिति २ भवहेतोरुन्मार्गस्य मार्गत्वेन देशना मुक्तिपथस्य ज्ञानदर्शनचारित्रलक्षणस्थापलपनमित्यादिमिः देवद्रव्यविनाशादर्हत्साधुचैत्यसङ्घादिप्रत्यनीकतया च दर्शनमोहनीय कर्म बन्नाति, तीव्रकषायनोकषायाद्युदयाच्च चारित्रमोहनीयमिति ४ महारम्भादियुक्तो व्रतरहितो नरकायुर्बध्नाति, उन्मार्गदेशनामार्गनाशनागढहृदयमायाकुशीलतासशल्यतादिमिस्तिर्यगायुर्वनाति, प्रकृत्याऽल्पकषायो दानरतः शीलसंयमरहितो मध्यमगुणवान् मनुजायुर्वनाति, सर्वदेशविरतिबालतपोऽकामनिर्जरासम्यक्त्वादिमिर्देवायुर्वध्नाति ५ मायागौरवादिरहितः शुभनाम, तद्विपरीतस्तु अशुभनामकर्म बध्नाति ६ गुणप्रेक्षी मायादिरहितोऽध्ययनाध्यापनादिरुचिरुच्चैर्गोत्रं बनाति, तद्विपरीतस्तु नीचैर्गोत्रमिति ७जिनपूजादिविघ्नकरो हिंसादितत्परोऽन्तरायकर्म बध्नाति ८, यदागमः-“दुविहो अ होइ मोहो"त्ति (१८८ नि०) आचाराङ्गे लोकविजयाध्ययननियुक्तिगाथाव्याख्याने, मोहनीयकर्म द्विधा भवति-दर्शनमोहनीयं चारित्रमोहनीयं चेति, बघ्नहेतोद्वैविध्यात्तथाहि-अईसिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बन्नाति, येन KOUGHOROHORGHOSHONGKONG ॥७ ॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy