________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥७३॥
SHONGHONEYONGOING DIGHONG
कारात् किञ्च - भावार्हतः पूजाङ्गीकारे स्थापनार्हतः पूजाऽवश्यमभ्युपगतैव, 'साक्षात्साधनताबाधे परम्परामादायैव प्रत्ययपर्यवसा ना' दितिन्यायाद् देशकालादिव्यवहितानां तीर्थकृतां हि पूजा स्थापनाद्वारैव स्यात्, तीर्थकरविषयक ध्यानावलम्बनहेतोरन्यस्यासंभवात्, लोकेऽपि राजाधिकृत पुरुषसेवा राजसेवातोऽप्यधिकफलदायिनी दृश्यते, अत एव बहून् जनान् समुदायीकृत्य साक्षात्तीर्थकरचन्दनपूजादिना केनापि संघपतिबिरुदं न प्राप्तं प्राप्तं च श्रीशत्रुञ्जयादियात्राविधिना बहुभिः, सम्प्रत्ययपि प्राप्यते चेति तवापि सम्मतम्, अतः कथंचित्साक्षात् तीर्थकर पूजातः स्थापनाईत्पूजा बलीयसी, नहि यथा स्थापनाऽर्हत्पूजा बहुवित्तव्ययादिसाध्या तथा भावार्हतोऽपि, भावार्हत्स्थापनार्हतोः पूजाविध्योर्विसादृश्याद्, अत्र बहु वक्तव्यमपि प्रायः प्रतीतमेव, यच्चोक्तमचेतनत्वादिति तदवाच्यं बालचेष्टितमवगंतव्यं, यतोऽभीष्टफलप्राप्तौ चैतन्याचैतन्य विचारोऽकिञ्चित्कर एव, "चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना ?" इति (वीत-स्तोत्र) वचनाच्चैतन्यरहितोऽपि चिन्तामणिर्यथाऽभीष्टफलदाता न तथा चैतन्यभागपि दुर्गतः, तस्माद्वस्तूनां वैचित्र्यमवगम्य सम्मोहः त्याज्यः, कथमन्यथा एकेनापि सौवर्णिकेन विक्रीतेन मनुजशतं भोज्यते, न पुनश्चैतन्यभाजा कीटिकाकोट्यापि विक्रीतया एकोऽपि मनुजः, आस्तामन्यत्, सत्यपि चैतन्ये तग्राहकोऽपि कोपि न मिलति, तस्मादभीष्टफलप्राप्तौ चैतन्याचैतन्यविचारलक्षणोऽस्थिझुकू लुम्पकमुखाङ्गण एव क्रीडन् विराजत इति । ननु अर्हन्ति पूजासत्कारादिकमित्यर्हन्त इति शब्दव्युत्पत्तिर्नास्माकमभीष्टा, किंतु “अठ्ठविहंपि अ कम्मं अरिभूअं होइ सव्वजीवाणं । तं कम्मअरिं हंता अरिहंता तेण वुच्चति ।। १ ।। त्ति (आव - ९२०-२५५३) वचनात् अष्टकर्मारिहननादरिहन्तार इतिव्युत्पच्या कथं पूजा सिद्ध्यतीति चेदुच्यते, एवमपि सुतरां प्रतिमाप्रासादादिपुरस्सरमेव पूजायाः सिद्धेः, तथाहि - अष्टकर्मारिहननमपि कर्मणामरित्वेन परिज्ञानादपरिज्ञानाद्वा ?, द्वितीयविकल्पेऽन्धयुद्धमिवापद्यते, न ज्ञातकर्मारिस्वरूप
कमरिहन नार्थत्वे पूजादि
॥७३॥