SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ । प्रासादपूजा श्रीप्रवचन-10 क्रियानुकारितामात्रेण सुवर्णोपमा प्राग्भणिता, अत्र तु श्रावकधर्मेऽपि द्वैविध्यं विकल्प्य विचार्यते तदा सामायिकादिकं रजतकल्पं परीक्षा प्रासादादिकं च सुवर्णकल्पमिति विवक्षया वस्तुकल्पनायां विरोधगन्धस्याप्यभावात् , ननु सुहृद्भावेन पृच्छामः-सामायिकादिक्रिया ८ विश्रामे साधुक्रियानुकारिणी निरवद्या च सर्वसम्मता तदपेक्षयाऽपि प्रासादादिकं शोभनतरमिति मच्चेतसि न प्रतिभासते इतिचेद् , उच्यते, ॥७२॥ यत्र कलादौ धर्मे वा नामग्राहं यदुपमया सद्भावसंभवे प्रशंसा असद्भावसंभवे च हीला स्यात् तत्र तत्र तत्तत्प्रधानभावेनैव बोध्यं, यथा श्रीवीरे ब्राह्मणकुले समुत्पन्ने वेदाध्ययनादिसंभावनया प्रशंसा, ब्राह्मणकुलोत्पन्नानां वेदाध्ययनमेव प्रशस्यपदवी प्रापयति, राजकुलोत्पत्तौ तु राज्यपती राजा सोऽपि चक्रवर्तीति प्रशंसा, राजकुलोत्पन्नानां राज्यपतित्वं, तत्रापि चक्रवर्तित्वं चैव प्रधानमिति ज्ञापयति, एवं धर्ममधिकृत्याद्यापि किमयं त्वं जातः प्रासादोद्धारं करिष्यसि अथवा शत्रुअयसंघपतिर्भविष्यसीत्यादिवचोभिरासतामन्ये मातापित्रादयोऽपि श्रावककुलोत्पन्नं स्वसुतं प्रत्यपमन्यते, न पुनस्तद्वत् किं सामायिकपौषधादिविधाता भविष्यसि अथवोपधानादितपोनिर्वाहको भविष्यसीत्यादिवचोभिराक्रोशयन्तीति सर्वजनप्रतीतं दृश्यते, तथा प्रासादप्रतिष्ठादिनिमि-तं यथा ज्योति शास्त्रे | मुहर्तलग्नादि भणितं दृश्यते न तथा तदतिरिक्ते धर्मानुष्ठानादौ, तथा साधवोऽपि यथा स्थानुयात्रादिषु बहवो मिलन्ति न तथा तद्व्यतिरिक्तसामायिककृत्येषु, तथा आचार्यादयोऽपि देशान्तरतोऽपि यथा प्रतिष्ठादिकृत्यमुद्दिश्यायान्ति न तथाऽन्यत्रेत्यादिविचारो | रहोवृत्त्या कृतः सन्नान्तरलोचनमलापनोदको भविष्यतीतिबोध्यं, ननु वयं सुहृद्भावेन पृच्छामः-अर्हन्ति पूजासत्कारादिकमतोऽर्हन्त इति नामव्युत्पत्त्यापि पूजा सिद्ध्यन्ती भावतीर्थकरमादायैव सिध्यतीति, तस्यैव धर्मोपदेशादिषु सामर्थ्यात् , न पुनः स्थापनाईतोऽपि, तस्साचेतनरूपत्वादिति चेच्चिरं जीव, एतावताऽपि भो लुम्पक! तव मतं तु जलाअल्येव संपन्न, तत्रापि पुष्पादिविराधनाडी GookGOOGHOR HORRONOHOROHORORDIOHOROHOR ॥७२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy