________________
प्रासादपूजा
श्रीप्रवचन- एव, यतः सामायिकक्रिया तावत्सचित्तवस्तुस्पर्शादेरप्यविषयः, जिनपूजा च सचिसजलकुसुमादिमिरेव साध्या, एवं च गमना
परीक्षा । गमनयोर्युगपदभाव इव युगपद् जिनपूजासामायिकक्रिययोरभाव एव, नहि कोऽपि निपुणोऽपि युगपद्गमनागमने कुर्वन् दृष्टः श्रुतो ८ विश्रामे
वा, न चोपदेशविषयक्रियापेक्षया आदेशविषयक्रिया शोभनतरा भविष्यतीति शङ्कनीयं, द्रव्यस्तवाधिकारे तथात्वाभावात् , तद्गतेश्च ॥७॥
प्राग्दर्शितत्वात् , न द्यादेशविषयाः क्रियाः सर्वा अपि समानाः, आचार्येण साधूनामिव कृतसामायिकादीनां श्रावकाणामप्यन्नादिकं देयत्वेन प्रसज्येत, तस्मात्माधान्याप्राधान्यविचारे आदेशोपदेशादिकल्पनमकिश्चित्करं, यद्वा प्राधान्यमप्राधान्यं च नैसर्गिकमौपाधिकं चेति प्रागुक्तं, तथा च विवक्षया यद्यादेशविषयाः क्रियाः निसर्गेण शोभना भण्यन्ते तर्हि द्रव्यस्तवे जिनप्रासादादिकमौपाधिकं शोभनतरं, तेनाल्पसुवर्णमहारजतपुआदिदृष्टान्तेन निसर्गसिद्धशोभनत्वमौपाधिकशोभनापेक्षया ह्यकिञ्चित्करमेवेत्यादि युक्तयोऽपरिमिता ग्रन्थविस्तरभयादलिखिता अपि दिग्दर्शनेन स्वयमेवाभ्युह्याः, इत्याद्यनेकागमसम्मत्या श्रावकधर्मे जिनपूजादिविधानस्यैव नैसर्गिकप्रधानभावेन सिद्धे लुम्पकः शङ्कते-ननु भोः यथा अर्हन्ति पूजासत्कारादिकमित्यहन्त इति नामव्युत्पत्त्याऽपि जिनपूजा सिद्ध्यति तथाऽर्थापच्या तत्प्रतिषेधोऽपि सिद्ध्यति, तथाहि-जिनपूजादिपु पृथिव्याद्यारम्भस्तावत्तदुपदेशकानां भवतामपि सम्मतः, यत्रारम्भस्तत्र दया न स्याद् , यदुक्तं-"आरंमे नत्थि दया महिलासंगेण नासए भं। संकाए सम्मत्तं पवजा अत्थगहणेणं ॥२॥"| ति, यत्र चारम्भस्तत्र प्राणा हन्यन्त एव, प्राणहननं त्वर्हद्भिः प्रतिपिद्धं,"सव्वे पाणा न तब्वे"त्यागमवचनेनैवेत्यर्थापत्या जिन| पूजा प्रतिषिद्वैवेति चेन्मैवं, प्रवचनवा या अप्यपरिज्ञानात , तत्कथमितिचेच्छृणु, यत्रानुष्ठाने आरम्भस्तजिनः प्रतिषिद्धमेव उत जिनोपदिष्टक्रियायामारम्भो न भवत्येव अथवा भवनापि निष्फलवान विवक्ष्यते ?,आये साधूनां विहाराहारनीहारनद्याधुत्तारप्रतिक्र
GOOOOOOOOOOOO
PROROROHOROROGROOHORIOR
||७०॥