SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ GNGHONG श्रीप्रवचन- माणा किं न श्रुता १, श्रुतैव, परमपरयुक्त्याद्यभाव एव जिनाज्ञाया बलमुद्भावयितुमुचितमिति चेदुच्यते, युक्तयोऽपि बहुव्यः सन्ति, परीक्षा में तथाहि - धर्मोपदेशदाने हि खवचः प्रतिबुद्धानां स्वयं प्रव्रज्यादानादि कर्त्तव्यं स्यात् न च संविग्नपाक्षिकवत्साधुपार्श्वे प्रेषणादियुक्तं, ८ विश्रामे | संविग्रपाक्षिकस्य स्वयमसाधुत्वाद्, वैयावृत्त्यादिकं गच्छ्वासिनामेव संभवति, तथा च गच्छवास एव सेव्यः स्यात्, गच्छनिर्गतानीत॥૬॥ स्यान्नादेर्गच्छ्वासिनामप्यकल्प्यत्वाद्, गच्छवासे चोत्सर्गापवादयोः परिसेवनीयत्वाद्, उपकरणान्यपि जघन्यतश्चतुर्द्दश धारणीयानि भवेयुः, गोचर्यामपि परिभ्रमणं प्रातरारभ्य सायं यावद्युज्येत, अन्यथा बालग्लानादेर्वैयावृत्याद्यसंभवाद्, एवमध्ययनाध्यापनादिष्वपि प्रवर्त्तने, जिनकल्पोऽपि स्थविरकल्पान्नातिरिच्यते, तथा चैकतरस्यावश्यमभाव एवापद्येत, नाप्युभयातिरिक्तं निरपेक्षं किञ्चिद्वक्तव्यं भवेत्, तस्माजिनकल्पिकसंबन्धिनी क्रियैव तादृशी यस्यां स्थविरकल्पिकाचारविषयिणी क्रिया न कल्पते, स्थविरकल्पिकस्यापि क्रिया तादृशी यस्यां जिनकल्पिकसंबन्धिनी क्रिया न कल्पते, उभयोरपि कल्पयोस्तथा स्वभावाद्, द्वयोरपि विरोधिन्योः | क्रिययेोरेकत्र समावेशे एकस्यापि कार्यस्यानुदयात्, नहि क्रूरपाकनिमित्तं चुलयामारोपितायां मुषायां युगपत् पायसपाकारम्भोऽप्यभीप्सितफलसाधको भवति, उभयोरपि कार्ययोरनुदयाद्, आस्तामन्यद्, विरोधि युगपत्प्रत्याख्यानद्वयमपि न संभवति, नहि युगपदुपवखाचामाम्लरूपं प्रत्याख्यानद्वयं स्यात्, किंत्वेकतरस्याभाव एव द्वितीयस्योदयः परं कृताचामाम्लप्रत्याख्यानो यद्युपवस्त्रं करोति तदा प्रत्याख्यानभङ्गो न स्याद्, उपवस्त्रीत्वाचामाम्लं करोति तदा प्रत्याख्यानभङ्ग इति विशेषः स्वयं बोध्यः, परमेकस्यां क्रियायां क्रियमाणायामन्तरा परक्रिया पूर्वक्रियासंयुक्तैव स्वयं विनश्यति, एवं कृतसामायिकादिरपि यदि जिनपूजां करोति तदा सामायिकक्रियाजिनपूजयोरविशेषापच्त्याऽन्यतरस्यापि लोपापत्तेः, किंच - क्रियाणां सांकर्ये जगद्व्यवस्थाभङ्गोऽपि, नहि युगपद्विरोधिन्योः क्रिययोः 200%C0%C DRONGHONEYONGGONGHONGKON पूजापौषधादीनां प्राधान्याप्राधान्ये ||६८||
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy