SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पूजापौष श्रीप्रवचन परीक्षा ८ विश्रामे ॥६७॥ DIGROUGHOIROHOROGRORNO | त्वाद्, अत एव जैनप्रवचनस्यानेकान्तात्मकत्वं, यतः किंचित्कथश्चित्प्रधानमप्यप्रधानमप्रधानमपि च प्रधानं भवति, परं तीर्थे । | प्रवृत्तिहेतुनिसर्गसिद्धःप्रधानभावो भवति, न त्वौपाधिकः, भावार्थस्त्वयं-तीर्थप्रवृत्तिहेतवो भावस्तवे वर्तमाना यथा स्थविरकल्पिका धादीनां प्राधान्या| भवन्ति न तथा जिनकल्पिका अपि, तेषां धर्मोपदेशप्रव्रज्यादावनधिकारात , तदभावे च कुतस्तीर्थप्रवृत्तिः ?, तेनैव जिनकल्पिकादय प्राधान्ये जास्तीर्थकरसंपत्तयापि नागमे वर्णिताः,तीर्थप्रवृत्ति प्रत्यकिश्चित्करा अपि नियमेनाराधकाच, एवं द्रव्यस्तवमार्गेऽपि समृद्धिमाज औदा| र्यादिगुणसंपन्ना बहुवित्तव्ययेनापि यथाशक्ति जिनभवनविधापनजिनपूजादिविधानज्ञानभाण्डागारनिर्मापणप्रव्रज्याद्युत्सवकरणसाधर्मिकवात्सल्यकरणदुर्बलसाधर्मिकोपष्टम्भविधापनादिशक्तिभाजो मनोज्ञेषणीयविपुलाशनपानखादिमस्खादिमवस्त्रपात्रोपाश्रयादि| साधुदानविचक्षणाः शुद्धश्रद्धानभाजस्त एव तीर्थप्रवृत्तिहेतवो, न पुनः सामायिकपौषधादिविधानतत्परः जिनकल्पिकवदात्ममात्रचिन्तका, ननु प्रासादादिनिर्मापणतत्परः सामायिकादिकं करोति न वेति चेदुच्यते, प्रासादादिनिर्मापणतत्परस्तु प्रायो यथाशक्ति यथावसरं सामायिकादिष्वपि यत्नवानेव स्याद् , यथा श्रीकुमारपालभूपालः, यस्तु केवलसामायिकादिविधान एव शक्तिमान् l स तु प्रासादादिष्वशक्तिमानेवेति प्रतीतमेव, ननु तर्हि किमर्थ जिनकल्पं प्रतिपद्यन्ते इति चेदुच्यते, निष्पादिते ह्यात्मप्रतिरूपे शिष्ये | निजगणभारमारोप्य निस्तीर्णगणकृत्यस्तथाविधधृतिश्रुतसंहननादिशक्तिमानागमोक्ततुलनापुरस्सरं जिनकल्पं प्रतिपद्यत एव, अन्यथा तेनापि वञ्चितो भवेदिति जिनाज्ञा प्रवचने भणिता, तत्पालननिमित्तमेव जिनकल्पप्रतिपत्तिः, एवं द्रव्यस्तवेऽपि तथाविधप्रासादादिनिर्माणादिकृत्येभ्य उत्तीर्णस्तथाविधशक्तिविकलश्च सामायिकादिशक्तिमान् तत्करोतीति जिनाज्ञापालनमेव श्रेयः,अन्यथा तेनापि वञ्चितो भवेदित्यलं प्रपञ्चेन । ननु जिनकल्पिको धर्मोपदेशवैयावृत्त्यादिकं न करोति तत्र कारणं किमितिचेदहो अद्य यावजिनाझैवोद्घोष्य- ॥६७॥ OTHORIGHLIGHORIGHORIGHOUSEHORE
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy