SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६६॥ SHOHONGKONGHONGHOSHOHGHOIGHC वित्तव्ययादिसाध्यं प्रासादादिप्रतिष्ठापर्यन्तं सामायिक पौपधाद्यपेक्षया निसर्गेण प्रधानमेव, श्रावकधर्ममात्रे तस्यैव प्राधान्यात्, देशतः परिग्रहत्यागरूपत्वेन साधुधर्मप्रत्यासन्नत्वात्तीर्थप्रवृत्तिहेतुत्वात् पापतापोपतप्तानां धर्मपिपासितानां सम्यक्त्व पानीयप्रपात्वात् प्रवचनप्रासादपताकाकल्पत्वात् साध्वादिसमुदायस्य सामुदायिकैकशुभाध्यवसायहेतुत्वेन सामुदायिक पुण्यप्रकृतिबन्धहेतुत्वान्मिथ्यात्वोत्सर्पणानिवारणपटहरूपत्वात्प्रवचनैकभक्त महापुरुषसाध्यत्वात् तीर्थकरभक्तिभागीरथीप्रवाहप्रथमोत्पत्ति है मपद्महद कल्पत्वाच्चेत्याद्यनेके हेतवः खयमभ्यूयाः, न चैवं सामायिकादिकमपि संभाव्यं तस्य प्रायः सामान्यजनसाध्यत्वेनोक्तहेतुभिरस्पृष्टत्वाद्, अत एव "साहूणं चेइआण य पडिणीअं तह अवण्णवायं च । जिणपवयणस्स अहिअं सव्वत्थामेण वारे ।। १ ।। त्ति (उप. २४२) अत्र साधुप्रत्यनीकवचैत्यप्रत्यनीकनिवारणं भणितं, तथा प्रत्यख्यानेऽपि 'महत्तरागारे 'त्ति पदं चैत्यादिनिमित्तमेव भणितं तथोपासकदशाङ्गेऽपि 'गुरुनिग्गहेणं' ति गुरुनिग्रहो - मातृपितृपारवश्यं गुरुणां वा - चैत्यसाधूनां निग्रहः - प्रत्यनीककृतोपद्रवो गुरुनिग्रह इत्यादि, तथा प्रश्नव्याकरणेऽपि "जे से उवहिभत्तपाणदाणसंगहण कुसले अचंतबालदुब्बलगिलाणवुडुखवगपवत्तिआयरिअउवज्झाए सेहे साहम्मिगे तवस्सी कुलगणसंघचेडअहे निजरही वेआवच्चं अणिस्सिअं दसविहं बहुविहं करेति "त्ति श्रीमनव्या०, अत्र चैत्यानि - जिनप्रतिमाः इत्याद्यनेकग्रन्थेषु चैत्यवैयावृत्यमाचार्यादिपङ्कौ व्यवस्थापितं, न तथा क्वापि साधूनां कृतसामायिकपौपधिक श्रावकवैयावृत्त्यादि भणितम्, अतः प्रासादादिकं श्रावकधर्मे प्रधानभावेनैव सिद्धं, पूजादिकं तु किञ्चित्प्रवचनोत्सर्पणाहेतुमहामहः पूर्वं बहुवित्तव्ययादिसाध्यं तत्तु सामायिकाद्यपेक्षया प्रासादादिपङ्कावेव स्थाप्यं यतस्तदप्युपाधिविकलं निसर्गेण प्रधानमेव, किंचिच्च तद्विलक्षणं चन्दनतिलकादिमात्रजन्यं, तत्खरूपेण प्रधानमपि सामायिकपौपधाद्यपेक्षया न प्रधानं तदपेक्षयाऽल्पकालादिसाध्यत्वेनाल्पमूल्यकल्प HORONGHONGONG Q%ONGHO% पूजापौषधादीनां प्राधान्या प्राधान्ये ॥६६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy