________________
श्रीप्रवचन
परीक्षा
८ विश्रामे
प्राधान्ये
AGROIOHORORONOROPOHORO
यिकादि निरवद्यानुष्ठानं शोभनमितिचेन्मैवं, जिनाज्ञाया एव प्राधान्यात् , नहि प्रतिलेखनादिक्रियापरायणैरपि जिनकल्पिकैर्महा-I पूजापौष| निर्जराहेतृत्वेन भणितमप्याचार्यादिवैयावृत्यं गच्छनिश्रादिकं च परिहृतमतः प्रतिलेखनादिक्रियापेक्षया तदशोभनं, न वा तत्परि- धादीनां हत्य प्रतिलेखनादिक्रियास्वेव यतितव्यं धर्मोपदेशादिपरिहारेण, तीर्थस्याप्युच्छेदापत्तेः, तस्माद्यथा जिनकल्पिकानधिकत्यैव वैया- प्राधान्यावृत्यादिनिषेधस्तथा कृतसामायिकादिकमधिकृत्यैव पुष्पादिना जिनपूजानिषेधस्तथैव जिनाज्ञायाः, अत एव यथोचितकालादिकम|धिकृत्य यथोचितसामायिकपूजादिक्रियाः कुर्वाण एव जिनाज्ञाराधको भवति, न पुनर्यथाशक्ति कालक्रमादिविपर्ययेण कुर्वाणो
ऽकुर्वाणो वा जिनाज्ञाराधकः संभवेद् , अयं भावः-नहि जिनकल्पिकपरिहृतत्वेन गच्छवासाचार्यादिवैयावृत्यधर्मोपदेशादिकमुपेक्षहाणीयं. न वा दशपूर्वधराधनादृतत्वेन जिनकल्पोऽप्युपेक्षणीयः, उभयोरपि जिनाज्ञायामेव वर्तित्वाद्, यदागमः-"जोवि वत्थ
तिवत्थो एगेण अचेलगोऽवि संचरइ । नहु ते हीलिजिति सव्वेऽपि अ ते जिणाणाए॥१॥त्ति श्रीआचा० टीकायां(१४५-२४६-३५८ । पत्रेषु) नहि कृतसामायिकेन जिनपूजा न कृताऽत उपेक्षणीया, नवा जिनपूजापरायणैः सामायिकं न कृतमतः सामायिकमप्युपेक्षणीयं, यथोचितकालपुरुषाद्यपेक्षयोभयोरपि जिनाज्ञात्वात् , ननु तर्हि पूजादिकृत्यं प्रधानभावेन भणितं तदसंगतमेवापन्नमितिचेदहो भ्रान्तिर्भवतां, प्राधान्यमपि नैसर्गिकोपाधिकभेदेन द्विधा, एवमप्राधान्यमपि, तथा च यद्वस्तु यदपेक्षया निसर्गेण प्रधानं तदुपाधिनाऽप्रधान, यदपाधिना प्रधानं तनिसर्गेणाप्रधानं, यथा रजतधात्वपेक्षया सुवर्ण निसर्गेण प्रधान, तदेव यदि माषप्रमाण स्थानदा गजप्रमाणरजतापेक्षया मूल्यमधिकृत्याप्रधानमपि, तत्र बहुप्रमाणहेतुकबहुमूल्यत्वमेवोपाधिः, एवं निसर्गेणाप्रधानमपि सुवर्णापेक्षया रजतं माषप्रमाणसुवर्णापेक्षया स्वयं गजप्रमाणं सन्मूल्यमधिकृत्य प्रधानमपीत्येवं सामायिकादिष्वपि योजना कार्या, सा चैवं-बह
॥६५॥
HOUGHOUGHOROUGHGHOR