SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन-15 सुमेरुर्महानित्युक्ते तस्य महत्त्वाधिक्यमाहात्म्यं स्यात् , निषधादपि मेर्वादयोऽन्येऽपि महान्तः सन्ति, तथा च निषधादिमेरुपर्यन्ताना-II स्तवयोः परीक्षा मन्तरालवर्तित्वमप्यस्य संपद्यतेति सुमेरुरोरपि लघीयान् भवन् केन वार्यते ?, एतेन प्रासादादिनिर्मापणापेक्षया सामायिकपौष- प्राधान्या८ विश्रामे ||धादिधर्मानुष्ठानं महानिर्जरहेतुरिति पराशङ्कापि व्युदस्ता, तथाविधप्रासादादिनिर्मापणादपि पौषधाद्यनुष्ठानस्य शोभनत्वे निरन्तरं मा प्राधान्ये ॥६॥ | यावज्जीवावधिकशुद्धपौषधानुष्ठानादपि चरित्रमधिकमित्येवं वक्तुमुचितत्वाद् , अन्यथा प्रासादनिर्मापणपौषधान्तरालवर्तिधर्मत्वापच्या | तथाविधपौषधधर्मादपि साधुधर्मस्य न्यूनत्वाशङ्का दुर्निवारैव, यत्तु सामायिकपौषधाद्यपि 'तओवि तवसंजमो अहिउ'त्ति पदेनोपात्तमेव तन्न, तत एव मोक्षावाप्तेरिति, यत एवं तसात्सति सामर्थ्य भावार्चने यतितव्यमिति व्याख्यानादधिकारस्यापि तथैव प्राप्तत्वाच्छीमहानिशीथेऽपि तथाविधप्रासादादिविधानादुत्कर्षतोऽप्यच्युत उपपातः तपःसंयमाच्च मोक्षावाप्तिरिति भणितत्वाच्च यस्तपः|संयमः साधुसंबन्धी स एव ग्राह्यो, न पुनः श्रावकसंवन्ध्यपि, तस्य सामायिकादप्यारम्भकलुषिताध्यवसायस्यानपायात् , यतः स कृतसामायिकोप्युद्दिष्टकृतं भुते, यदागमः-"कडसामइओवि उद्दिकडंपि से मुंजे" इतिश्रीनिशीथचूर्णी,तेन वस्तुगत्या सामायिकाद्यनुष्ठानं जिनाच तो न भिद्यते, सर्वत्राप्यारम्भपरिग्रहकलुषिताध्यवसायस्य समानत्वाद् , अत एव श्रावकसंबन्धिधर्मानुष्ठान| मात्रस्यापि द्रव्यस्तवत्वमेव, यत्तु क्वापि सामायिकपौषधाद्यनुष्ठानं भावस्तवत्वेन भणितं तत्रापि सम्मतितया "कंचणमणिसोवाण"मित्याधुपदेशमालासंबन्धिनी गाथैव दर्शिता, तद्विचारणीयमस्तीति बोध्यं, यद्वा कथंचिद् वाद्यवृत्त्या साध्वनुकृतिमात्रेण तद्भणितं |संभाव्यते, यथा सुवर्णरसरसिता रूप्यमुद्रिकाऽपि सोवणीति भण्यते, तदनुकृत्याकृत्यादिमत्वात् , ननु श्रावकधर्मानुष्ठानमात्र ॥६॥ स्यापि द्रव्यस्तवत्वेन समानत्वे सत्यपि कृतसामायिकादिः सुश्रावकः पुष्पादिभिर्जिनपूजां न करोतीत्यतो ज्ञायते जिनपूजातः सामा ORDERRORDAORDITORROHOUSRO
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy