________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६३॥
DHOHSINGHONDHO
DINGKONGC
| मिर्भगवद्विम्बार्चनमिति न व्याख्यास्यत्, तथा व्याख्याने च तस्य मुख्यत्यमेव, मुख्ये हि भणिते शेषा गौणधर्माः स्वत एवोप| लक्षणात्सिद्ध्यन्ति, यथा राजा गच्छतीत्युके ऽनुक्ता अपि पदात्यादयः परिकरभूता नरादयः, ननु भवद्भिः प्रासादादिविधापनादेः प्राधान्यं भणितं 'भावच्चणे' त्यागमे च माल्यादिभिर्भगवद्विम्बार्चनमित्युक्तं तत्कथमिव संगतिरिति चेदुच्यते, प्रासादादिविधापनं विना बिम्बार्चनस्यैवासंभवात्तद्विधापनमनुक्तमपि व्यापकाभावेन सिद्धमिति नासंगतिगन्धोऽपि, अत एव श्रावकधर्मकृत्येष्वपि प्रासादविधापनस्यैव साधुधर्मप्रत्यासन्नत्वमभाणि यदभाण्यागमे - "कंचणमणिसोवाणं थंभसहस्वसिअं सुवण्णतलं । जो कारिज्ज जिणहरं तओवि तवसंजमो अहिओ || १ ||" ति ( ४९४ उप. ) अस्या व्याख्यानं - काञ्चनं - सुवर्ण मणयः - चन्द्रकान्ताद्यास्तत्प्रधानानि सोपानानि यस्मिंस्तत्तथा, स्तम्भसहस्रोच्छ्रितम्, अनेन विस्तीर्णतामुद्भावयति, सुवर्णप्रधानं तलं यस्य तत्तथा, सर्वसौवर्णिकमित्यर्थः, यः कारयेत्-निम्र्म्मापयेत् जिनगृहं - भगवद्भवनं ततोऽपि - तथाविधजिन गृहकारणादपि, अप्यास्तामन्यस्मात्, तपःसंयमोऽधिकः- समर्गलतरः, तत एव मोक्षावाप्तेरिति, यत एवं तस्मात् सति सामर्थ्ये भावार्च्चने यतितव्यमिति । अत्र आस्तामन्यत् सति सामर्थ्ये भावार्चने यतितव्य| मिति भणनेन श्रावकधर्मानुष्ठानेषूक्तलक्षणमासाद विधापनाच्छेषकृत्यानां न्यूनत्वमेव सूचितं यथा 'पीयूषादपि मधुरा वाणी ते वर्ण्यते जिनामयै' रित्यत्र यावन्ति जगदुदरवर्त्तीनि शर्कराप्रभृतीनि वस्तूनि तान्यतिक्रम्यैवामृते माधुर्यं, न पुनस्तेभ्यो न्यूनम्, अन्यथा तदपेक्षयाऽपि यदधिकतरं मधुरं भवेत्तस्यैव तथावक्तुमुचितत्वात् नहि कोऽपि सर्पपात्सुमेरुर्महानिति वचः प्रपञ्चेन सुमेरुं गरिमाणमारोहयन्ति, किंतु सर्षपसुमेर्वोरन्तरालवर्त्तिनः क्रमेण प्रवर्द्धमानपरिमाणा बदरामलकनालिकेरादयो निषधनीलवन्मेरुपर्यन्तास्तेष्वपि सर्वोत्कृष्टपरिमाणः सुमेरुप्रत्यासन्नो धातकीखण्डगतो मेरुर्भवति, मेरोरपि सुमेरुर्महानित्युक्ते सुमेरोर्गरिमा, न पुनर्निषधादपि
ONGKONGHOGORONGHODIGONO
स्तवयोः
प्राधान्या
प्राधान्ये
॥६३॥