________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥६ ॥
स्तवयोः प्राधान्याप्राधान्ये
GिOOKOHOROGGOGHOSHO:
विद्यमानत्वाद् , एतच्च तृतीयविश्रामे किंचिद्दर्शितमिति बोध्यं, किंच-वस्तुगत्या श्रावकधर्ममात्रो द्रव्यस्तवः, साधुधर्मस्तु भावस्तवः, स च श्रावकधर्मपूर्वक एव, केवलभावस्तवस्याङ्गीकारे श्रावकधर्मस्याप्युच्छेदापत्तेः, किंच-यो हि भावपूजाविषयः स च नियमात् | द्रव्यपूजाविषयो, नान्यो, द्रव्यपूजाविषयत्वाभावे भावपूजाया अप्यविषयत्वात् , मिथ्यादृक्सुरवत् , ननु सिद्धानां द्रव्यपूजाविषयत्वाभावेऽपि भावपूजाविषयत्वमेवास्तीति चेन्मैवं, तेषामप्यर्हतामिव नामादिभिश्चातुर्विध्यात्स्थापनादिरूपाणां सिद्धानां पुष्पादिभिद्रव्यपूजाया अध्यक्षसिद्धत्वात् , न च भावसिद्धानां तथाविधद्रव्यपूजाया असंभवे किंचिद्भाधकम् , अर्हतामपि भावार्हत्वमुत्कर्षतोऽपि पूर्वलक्षणप्रमाणं,ततः पश्चात्तथा पूजाया अभावात् त्वदाशङ्कितबाधकस्यानिवार्यत्वात् , तस्मादाराध्यस्यापि भावरूपस्य पुष्पादिना द्रव्यपूजा पूज्यपूजकयोः साक्षात्संबन्धे सत्येव स्यात् , स च जगत्स्थित्या भावसिद्धानामसंभव्येव, भावार्हतामपि कदाचित्क एव, न सार्वदिकः, स्थापनाईतस्तु पूजकसामर्थ्यसाध्यत्वात्प्रायो भवत्येव, तेन स्थापनार्हतः पूजा बलीयसी, सा च सिद्धानामप्यविरुद्धति सिद्ध द्रव्यपूजायोग्यस्यैव भावपूजायोग्यत्वं, यद्यपि भावस्य प्राधान्यं प्रवचनेऽमिहितं तथापि द्रव्यसापेक्षमेव तद्बोध्यं, यथा शरीरमध्ये हस्तपादाद्यङ्गापेक्षया मस्तकस्यैवोत्तमाङ्गत्वं शेपावयवसापेक्षमेव दृष्ट, नहि हस्तपादकण्ठादिभ्यः पृथग्भूतस्यापीत्यग्रे दर्शयिष्यते, अन्यथा साधुदानादिष्वपि द्रव्यदाननिरपेक्षस्यैव भावदानस्य प्राधान्येऽनपानादिद्रव्यदानस्याकिश्चित्करत्वापच्या प्रवचने लौकिक|मार्गे च वाचामगोचरमसमञ्जसमापद्येत, तच्च तवाप्यनिष्टं, किंच-द्रव्यदाननिरपेक्षभावदानस्य प्राधान्यं तवाभिमतमङ्गीकृत्य प्रवर्तमानेषु त्वद्भक्तेष्वस्माकं तुष्टिरेव, विनौपधेनापि व्याधिनाशात ,किंच-भावपूजायां यदि प्राधान्यं तवाभिमतं तर्हि द्रव्यपूजाऽप्यवश्यमभिमतैव, प्राधान्यं हि खजातीयेषु कथश्चिद्गुणाधिक्यं, यथा जिनेषु तीर्थकृतां जिनप्राधान्यं, न चैतावता सामान्यकेवलिनामना
GORIGHORIGHORITRONGHORSROIDOE
॥६
॥