________________
लुम्पकोपदेशः
SROUGCHHOTE
श्रीप्रवचन- सर्वे सच्चा हंतव्या इत्यादि श्री आचा० सम्य० उ० अत्रान्यतीर्थिका मिथ्यादृशो,न हिंस्यात् सर्वभृतानीति भणित्वाऽपि तत्रैव तत्रे परीक्षा
पट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेघस्य वचनान्न्यूनानि पशुभिस्विमि ॥१॥'रित्यादि संख्यापुरस्सरपशुवधानुज्ञा. ८ विश्रामे
परा विरोधवादिनो यथा वर्तन्ते न तथाऽर्हन्तो भगवन्तोऽपीत्याद्यर्थज्ञापकमिदं सूत्रं, न पुनर्जिनपूजादिप्रतिषेधकं, तद्वाचकशब्द॥६०॥
जगन्धस्याप्यनुपलब्धेः, प्रत्युतेदमेव सूत्रं जिनेन्द्रपूजाव्यवस्थापकं, तथाहि-'खेअण्णेहिं पवेइतिपदेन श्रीगौतमस्वाम्यपि स्वमनीषि
कापरिहारेण पारतन्त्र्यमेव दर्शितवान् , आस्तामन्यः, सर्वसम्मतः सर्वोत्कृष्टः सन्नपि भगवान् श्रीमहावीरः स्वसमानसर्वोत्कृष्टपुरुषसम्मत्यैव भणितवान्-अन्यैरपि जिनेन्द्ररित्थमेवोक्तमित्यागमे प्रतीतमेव, तथैव सर्वेषामुपादेयत्वं स्यात् , नान्यथा, तथा चैतत्सूत्रमपि खमत्या न व्याख्येयं, किंतु श्रीसुधर्मस्वामितोऽच्छिन्नपरम्परागतमेव व्याख्यानं कर्त्तव्यं, तच्चैवं ‘से बेमी'त्यादौ अर्हत इति सामान्यतो यदभिधानं तत्कियोपाधिकं, यथा पचतीतिपाचकः पठतीति पाठकः कुम्भं करोतीति कुम्भकार इत्यादिनामानि क्रियोपाधिकानि तथेदमपि वक्तव्यं, तत्रार्हन्ति पूजासत्कारादिकमित्यर्हन्तः, यदागमः-"अरिहंति वंदणनमंसणाई अरिहंति पूअसक्कार। | सिद्धिगमणं च अरिहा अरिहंता तेण वुचंति।।२।।त्ति (आव० ९२१) यद्वा अर्हन्ति शक्रादिसुरादिकृतां पूजामित्यर्हन्तः, यदागमः"देवासुरमणुएसुंअरिहा पूआ सुरुत्तमा जम्हा। अरिणोहंतारयं हंता अरिहंता तेण वुचंति।।शत्ति(आ०९२२) पूजादियोगादेव क्रियो। पाधिकं नाम संभवतीति, अन्यथा अर्हन्त इति नानोऽप्यसंभवाद्, एवं नामव्युत्पत्त्यैव पूजायाः सिद्धत्वात् कथं तत्पराकरणार्थमेतत्सूत्रमुद्घोष्यते, न च सा पूजा भावरूपा भविष्यतीति शङ्कनीयं, द्रव्यपूजापूर्वकत्वाद्भावपूजायाः, द्रव्यं हि भावकारण"मितिवचनात् , न च साधूनां हि भावपूजा द्रव्यपूजापूर्विका न संभवतीति शङ्कनीयम् , उपदेशानुमोदनयोर्द्रव्यपूजयोः साधूनामपि
॥६
॥