________________
श्रीप्रवचन
परीक्षा ८ विश्रामे
सव्वे पाणेतिसूत्रव्याख्या
॥५५॥
HOMGHOTOHOTO.CoHOGOOK
| निजमुखविवरनिर्गतं प्रमाणमेव ब्रुवाणो मुग्धजनान् विप्रतारयति, अतस्तत्परमार्थपरिजिज्ञासुना तट्टीका विलोकनीया, सा चैवं-'से बेमी'त्यादि सूत्र, गौतमखाम्याह-यथा सोऽहं योऽहं ब्रवीमि तीर्थकरवचनावगततत्त्वः श्रद्धेयवचन इति, यदिवा शौद्धोदनिशिष्यामिमतक्षणिकत्वव्युदासेनाह-येन मया पूर्वमभाणि सोऽहमद्यापि ब्रवीमि, नापरो, यदिवा सेशब्दस्तच्छब्दार्थे, यत् श्रद्धाने सम्यक्त्वं | भवति तदहं तवं ब्रवीमि, येऽतीताः-अतिक्रान्ताः, ये च प्रत्युत्पन्नाः-वर्तमानकालभाविनी ये चागामिनस्ते एवं प्ररूपयन्तीति
संबन्धः, तत्रातिक्रान्तास्तीर्थकृतः कालस्यानादित्वादनन्ता अतिक्रान्ताः, अनागता अप्यनन्ताः, आगामिकालस्यानन्दत्वात् , तेपां alच सर्वदेव भावादिति, वर्तमानतीर्थकृतां प्रज्ञापकापेक्षितयाऽनवस्थितत्वे सत्यप्युत्कृष्टजघन्यपदिन एव कथ्यन्ते, तत्रोत्सर्गतः सम
यक्षेत्रसंभविनः सप्तत्युत्तरशतं, तच्चैव-पञ्चस्खपि विदेहेषु प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वादेकैकस्मिन् द्वात्रिंशत् २, पश्चस्वपि भरतेषु पञ्च| स्वेवमैरवतेष्वपीति, तत्र द्वात्रिंशत्पश्चभिर्गुणिता षष्ट्युत्तरं शतं, भरतैरावतदशप्रक्षेपेण सप्तत्यधिकं शतमिति,जघन्यतस्तु विंशतिः,सा
चैवं-पञ्चस्वपि महाविदेहेषु महाविदेहान्तर्महानद्युभयतटसद्भावात्तीर्थकृतां प्रत्येकं चत्वारः, तेऽपि पञ्चभिर्गुणिता विंशतिः, भरतैदारावतयोरेकान्तसुषमादावभाव एवेति, अन्ये तु व्याचक्षते-मेरोः पूर्वापरविदेहयोरेकैकसद्भावान्महाविदेहे द्वावेव, ततः पञ्चस्वपि
दशैवेति, तथा च ते आहुः-"सत्तरसयमुकोसं इअरे दस सत्यखित्तजिणमाणं । चोत्तीस पढमदीवे अणंतरद्धे अ ते दुगुणा ।।१॥"| के इमे १-अर्हन्तः-अर्हन्ति पूजासत्कारादिकमिति, तथा ऐश्वर्याद्युपेता भगवन्तः, ते सर्व एव परप्रश्नावसरे एवमाचक्षते, यदुत्तरत्र | वक्ष्यते, वर्तमाननिर्देशस्योपलक्षणार्थत्वादिदमपि द्रष्टव्यम्-एवमाचचक्षिरे एवमाख्यास्यन्ति, एवं सामान्यतः सदेवमनुजायां पर्षदि | अर्द्धमागधया सर्वसत्त्वस्वभाषानुगामिन्या भाषया भाषन्ते, एवं प्रकर्षेण संशीत्यपानादायान्तेवासिनो जीवाजीवाश्रवबन्धसंवरनिर्ज
PHOTOROSCOHOROUSOOHORS
॥५५॥