________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥५६॥
300/NGHONGAD GHODIGHONG
रामोक्षपदार्थान् ज्ञापयन्ति प्रज्ञापयन्ति, एवं 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, मिथ्यात्वा विरतिप्रमादकपाय योगा बन्धहेतवः, स्वपरभावेन सदसती, तत्त्वं सामान्यविशेषात्मक' मित्यादिना प्रकारेण प्ररूपयन्ति, एकार्थिकानि वैतानीति, किं तदेवमाचक्षते इति दर्श यति - यथा सर्वे प्राणाः - पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुःपञ्चेन्द्रियाचेन्द्रियबलोच्छ्वास निश्वासायुष्कलक्षणमाणधारणात्प्राणाः तथा सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति च भूतानेि - चतुर्द्दश भूतग्रामान्तः पातीनि एवं सर्व्व एव जीवन्ति जीविष्यन्ति अजीवि - | पुरिति जीवाः - नारकतिर्यग्नरानरलक्षणाश्चतुर्गतिकाः, तथा सर्वे एव स्वकृत सातासातोदयसुखदुःखभाजः सच्चाः, एकार्था वैते शब्दास्तस्य भेदपर्यायैः प्रतिपादनमितिकृत्वेति एते च सर्वेऽपि प्राणिनः पर्यायशब्दावेदिता न हन्तव्याः दण्डकशादिभिः नाज्ञापयितव्याः प्रसह्याभियोगदानतः न प्रतिग्राह्याः भृत्यदास्यादिममत्वपरिग्रहतः न परितापयितव्या इति शारीरमानस पीडोत्पादनतः नोपद्रावयितव्याः प्राणव्यपरोपणतः एषः - अनन्तरोक्तो धर्मो दुर्गत्यर्गलासुगतिसोपानदेश्यः, अस्य च प्रधानपुरुषार्थत्वाद्विशेषणं दर्शयति-शुद्धः - पापानुबन्धरहितः, न शाक्यधिग्जातीयानामिवै केन्द्रियपञ्चेन्द्रियव धानुमतिकलङ्काङ्कितः, तथा नित्यः - अप्रच्युतिरूपः, पञ्चस्वपि विदेहेषु सदा भवनात्, तथा शाश्वतः शाश्वतंगतिहेतुत्वाद्, यदिवा नित्यत्वाच्छाश्वतः नतु नित्यं भूत्वा न भवति, भव्यत्ववद्, अभूत्वा च नित्यं भवति घटाभाववदिति, अयं तु त्रिकालावस्थायीति, अमुं च लोकं -जन्तुलोकं दुःखसागरावगाढं समेत्य - ज्ञात्वा तदुत्तरणाय खेदज्ञैः - जन्तुदुः खपरिच्छेत्तृभिः प्रवेदितः - प्रतिपादित इत्येतच्च गौतमस्वामी स्वमनीषिकापरिहारेण शिष्यमतिस्थैयार्थं बभाषे एनमेव सूत्रोक्तमर्थं नियुक्तिकारः सूत्रस्पर्शकेन गाथाद्वयेन दर्शयति- "जे जिणवरा अतीता जे संपइ जे अणागए काले। सव्वेऽवि ते अहिंसं वदिंसु वदिहिंति अ वयंति ॥ १ ॥ छप्पि जीवनिकाया णोऽवि हणे णोऽविअ हणावेज । गोऽविअ अणु
SHONGKONGHONGKONGONGHOISON
सव्वे पाणेतिसूत्रव्याख्या
॥९६॥