________________
श्रीप्रवचन
परीक्षा
पुस्तकघर्मितानिरास:
८ विश्रामे ॥५२॥
HOUGHOSHODHONGEOGHONA
द्वादशावत्तेवन्दनकं ददातीत्यत्र कथं मुखवत्रिका प्रतिलिख्यते । कथं चाव कृतिविधीयते, नहि लिखितमात्रेण तदनुष्ठानविधिः सम्यग्विधातुं शक्यते, एवं जगद्व्यवहारोऽपि दृश्यते, नतु लिखितमात्रेणेति गाथार्थः ॥६० ॥ अथ लिखितमात्रेणापि कार्यसिद्धिभविष्यतीति पराशङ्कामपाकरोति
भोअणविवाहमंडणगमणागमणाइसहमित्तेणं । जइ तविहाणणाणं सम्मं ता पुत्थया धम्मो ॥१६॥ .
भोजनविवाहमण्डनगमनागमनादिशब्दमात्रेण यदि सम्यग् तद्विधानं-भोजनादीनां विधिस्तस्य ज्ञानं भवेत् तर्हि पुस्तकात्सम्यग् धर्मो-धर्मविधिर्भवेद् , अयं भावः-देवदत्तेन भोजनं कृतमित्यत्र भोजनशब्देनानेन क्रमेण निष्पन्नमनेनैव च क्रमेण परिवेषितममुकेन संयोज्य वियोज्य चैतावद्भक्तं त्यक्तं मधुरं लावणं सुखादं दुःखादं सुसंस्कृत सुनिष्पन्नं चेत्यादिविधिः सम्यग् परिज्ञायेत तदा पुस्तकाद्धर्मः सम्यग् ज्ञायेत, एवमनेन देवदत्वेन पुत्रादेविवाहः कृत इत्यत्र विवाहशब्देन यावद्यथाभूतविवाहादिसमग्र| सामग्र्याः परिज्ञानं स्यात् , तथा देवदत्तो भूषणैरलङ्कत इत्यत्रालङ्कारशब्देन व्यक्त्याऽलङ्कारनामपरिधानादिपरिज्ञानं स्यात् , तथा स
देवदत्तो गत इत्यत्र गमनशब्देनोद्दिष्टदिग्ग्रामकार्यादीनां सर्वेषामपि सम्यकपरिज्ञानं स्याद् , एवमागमनेऽप्यादिशब्दात्मासादादीनां परिग्रहः, संप्रतिराज्ञा श्रीवीरप्रासादः कारित इत्यत्र संप्रतिराजव्यतिकरप्रासादकरणविधिव्यतिकरश्रीमहावीरव्यतिकरादीनां | सम्यग्ज्ञानं स्यात् तदा केवलपुस्तकाद्धर्मविधिर्लभ्येत, तथा यथागमे साधुसेवनादिना सम्यक्त्वादि प्राप्तिर्भणिता न तथा क्वापि | | पुस्तकादपीत्यत्र बहु वक्तव्यं ग्रन्थविस्तरभयादनुक्तमप्यत्र खयमालोच्यमिति गाथार्थः॥६१॥ अथ तत्पथप्राप्तिलक्षणस्य द्वितीयविचारस्य तात्पर्यमाह
GिHOIGHONGEOGणानOUGHOR
॥२॥