________________
पुस्तक
भीप्रवचन
परीक्षा ८विभामे ॥४९॥
धर्मितानिरास:
ONGROUGHOUGHOUGHOUGHOUGHONG
सिद्धंतो सुत्ताई वित्तिप्पमुहाई नेव सिद्धंतो। जिणपूआइ अहम्मो आयरिअपरंपरा असुहा ॥५४॥ इचाइअ सिद्धंते कथवि नत्थेव किंतु विवरीअं। उभयं चिअ विवरीअंभासंतो भाससावि न किं॥५०॥ युग्मं ॥
सूत्राणि-अङ्गोपाङ्गादीनि सिद्धान्तः, एवकारः सर्वत्र संबध्यते, केवलसूत्राण्येव सिद्धान्तः, वृत्तिप्रमुखाणि-वृत्तिनियुक्तिभाष्या| दीनि सिद्धान्तो नैव-न भवत्येव, जिनपूजादि, आदिशब्दात् प्रासादादीनां परिग्रहः,च समुच्चये गम्यः, अधर्मो-धर्मो न भवत्येव, | आचार्यपरम्परा चाशुभा-अनुचितैवेत्यादि सिद्धान्ते कुत्रापि-क्वापि नास्त्येव, किंतु विपरीतं, वृत्त्यादिसंयुक्तमेव सूत्रं सिद्धान्तोऽन्यथा मिथ्यात्वहेतुत्वान्मिथ्याश्रुतमेव, नियुक्त्याद्यपि सिद्धान्त एव, जिनपूजादिधर्म एव, आचार्यपरम्परामन्तरेण धर्म एव न भव| तीत्याधुभयमपि विपरीतं भाषमाणः-यत् सिद्धान्ते विद्यते तन्नास्ति यश्च नास्ति तदस्तीति ब्रुवाणो लुम्पकः किं न भमसात् ?, कालानुभावाद्भमसान्न भवतीत्यर्थः, यच्चोभयविपरीतभाषणं तल्लुम्पकमतेऽग्रे तदुपदेशसिद्धान्तविचारावसरे स्वत एव व्यक्तीभविष्यतीति गाथायुग्मार्थः ॥५४-५५|| अथ यदुक्तं भससादिति तत्र हेतावुक्तेऽपि हेत्वन्तरमाह
जं लोइअलोउत्तरमग्गा भट्ठो उ उभयभडत्ति । लोअववहारबज्झो बज्झो निअमेण तित्थावि ॥५६॥
लौकिकलोकोत्तरमार्गभ्रष्टो-लौकिकलोकोत्तरव्यवहारशून्य उभयभ्रष्टः-ऐहिकपारत्रिकसुखपरिभ्रष्ट इति-अमुना प्रकारेण लोकव्यवहारबाह्यः सन् तीर्थादपि नियमेन बाह्य एव, अयं भावः-लोकव्यवहारस्तावल्लोकविरुद्धकृत्यानां परिहारेणैव स्यात् , लोकविरुद्वकृत्यानि त्वस्य लुम्पकस्यालङ्कारभूतानि, यत आस्तां निन्दनीयकुलादिष्वनुचितानपानादिग्रहणं, ये भाणकाद्याः प्राचीनवेषधरा आसन् ते बहिर्भूमौ गताः शौचाचारमपि चीवरखण्डैः प्रश्रवणपाषाणखण्डैश्च कृतवन्तः, अत एवाद्याप्यहो लुम्पकाः जुगुप्सनीयाः
॥४९॥