________________
भीप्रवचन
प्रतिमातो
परीक्षा
८विश्रामे ॥४८॥
OGHOOKGROOHOROHOT
यथा सम्यग्भावितानां प्रतिमानां कारणे कार्योपचाराद्भावग्रामत्वं युष्माकं मतम्-अभिप्रेतमेवमेव निवादयोऽपि भावग्राम एव भवतां प्राप्नुवन्ति, तेषामपि दर्शनेन कस्यचित्सम्यग्दर्शनोत्पादात् ,सरिराह-एतत्-त्वदुक्तमवाच्यं वचनं भवन्तमसमंजस| प्रलापिनं विना को नु अविपरीतः-सम्यग्वस्तुतत्त्ववेदी वदे, अपि तु नैवेत्यभिप्रायः ॥५१॥ अथैवं कुत इत्याह
जइविहु सम्मुप्पाओ कासइ दट्टण निण्हए हुज्जा। मिच्छत्तहयमईआ तहावि ते वजणिज्जा उ॥२२॥
यद्यपि निवानपि दृष्ट्वा कस्यचित्सम्यग्दर्शनोत्पादो भवेत् तथापि ते मिथ्यात्वम्-अतत्त्वे तत्वाभिनिवेशस्तेन हता-दूषिता स्मृतिः-सर्वज्ञवचनसंस्कारलक्षणा दुर्वातेन शस्थवद् येषां ते मिथ्यात्वहतस्मृतिकाः,एवंविधाश्च बह्वीमिरसद्भावनोद्भावनाभिरस्तोकचेतांसि विपरिणामयन्तः पूर्वलब्धमपि बीजमात्मनोऽपरेषां चोपनतो दूरं रेण वर्जनीया इति, यतश्चैवमतो नैते भावग्रामतया भवितुमर्हन्तीति प्रकृतम् ॥ १२॥ इतिश्रीबृहत्कल्पभाष्यवृत्तौ द्वितीयखण्डे पत्रे २२६, द्वितीयखण्डसर्वपत्राणि ३५९ ।। अत्र पुस्तकं पुरस्कृत्य ब्रुवाणस्य लुम्पकस्य स्वरूपमाह
पुत्थयमच्छह भारं दाऊण य पुत्थयपि सत्थहयं । कुव्वंतो निअअम्मं भजं कुजावि निल्लज्जो ॥५३॥
पुस्तकमस्तके भारं दत्त्वा-सिद्धान्तपुस्तके तावदित्थमेव लिखितमतोऽस्माभिरेवमुच्यते इत्येवंरूपेण पुस्तके भारमारोप्य पुस्तक| मपि शस्त्रहतं-शस्त्रेण हतमिव चैतन्यरहितमिव कुर्वन्-पुस्तकलिखितमुपेक्ष्य स्वेच्छया विपरीतं वदन् निर्लजो-लज्जारहितो, लज्जा हि |
मनुष्यधर्मस्तेन रहितः पशुरिव निजाम्बा-खमातरं भायां कुर्यात् , पशूनां हि बाल्यभावातिक्रमे जननीतरयोरविशेषस्तथाऽस्यापि | संजातं, कथमन्यथा पुस्तकं शरणीकृत्य पुस्तकलिखिताद्विपरीतं भाषेतेतिगाथार्थः । ५३॥ अथ सिद्धान्ते किमस्ति ?, लुम्पकस्तु किं वदतीति ज्ञापनाय गाथायुग्ममाह
GROGROGROUGHOUGHO
॥४८॥
ORG