________________
श्रीप्रवचन
प्रतिमातो
धर्म:
परीक्षा ८ विश्राम ॥४६॥
___ कत्थवि पुत्थे लिहिअंदीसइ पुत्थाउ लगभई धम्मो । अम्हेऽवि सहहामो कहंचि सचंपि तुह वयणं ॥४६॥ नेवं कत्थवि लिहिअं लिहि पडिमाउ लब्भई धम्मो । जह खुड़कप्पभासे सिद्धंते भासिअं एवं ॥४७॥ युग्मं॥
पुस्तकादपि-सिद्धान्तपुस्तकादपि धर्मो लभ्यते इति यदि कुत्रापि पुस्तके लिखितं दृश्यते यदितर्हिशब्दयोरध्याहारोऽधिकारवशाद्गम्यः तर्हि वयं श्रद्दधामस्तव वचनं कथंचित्सत्यमपि, सर्वथा सत्यं तु प्रवचनबाह्यानां न स्यादेवेति कथंचिदुक्तं,केनापि प्रकारेण क्वचिदंशे सत्यमित्यर्थः, नैवं कुत्रापि लिखितं-क्वापि पुस्तके पुस्तकाद्धर्मो लभ्यते इति लिखितं नास्ति, किंतु लिस्वितं प्रतिमातो धर्मो | लभ्यते, जिनप्रतिमादर्शनाद्धर्मो लभ्यत इति पुस्तके लिखितमस्तीत्यर्थः, न चैतद्वाङ्मात्रेणेति सम्मतिमाह-'जह वुडू'त्ति यथा बृह
कल्पभाष्ये सिद्धान्ते भाषितं, भाष्यादेः सिद्धान्तत्वमग्रे लुम्पकमुखेनैवाभ्युपगमयिष्यतेऽतो भाष्यस्यापि सिद्धान्त इति विशेषणं, तच्च कथं भाषितम् ?, एवम्-अनन्तरं वक्ष्यमाणमिति गाथायुग्मार्थः ॥४६-४७।। अथ बृहत्कल्पभाष्यमेवाह
तित्थयरा १ जिण २ चउदस ३ भिण्णे ४ संविग्ग ५ तह असंविग्गे ६।
सारूविअ ७ वय ८ दंसण ९ पडिमाओ१० भावगामाओ॥४८॥ पा एतट्टीका यथा-भावग्रामस्तु नोआगमतो ज्ञानादिकं-ज्ञानदर्शनचारित्रसमवायरूपं, यतो वा तेषां ज्ञानादीनामुत्पत्तिर्भवति
ते भावग्रामतया ज्ञातव्याः, के पुनस्ते १, उच्यते ?-'तित्थयरातीर्थकरा:-अर्हन्तः जिनाः-सामान्यकेवलिनः अवधिमनःपयेवजिना वा चतुर्दशपूविणो दशपूर्विणश्च प्रतीताः 'मित्र'त्ति असंपूर्णदशपूर्वधारिणः संविनाः-उद्यतविहारिणः असंविनाः-तद्विपरीताः सारूपिका नाम श्वेतवाससःक्षुरमण्डितशिरसो भिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'वय'त्ति प्रतिपन्नाणुव्रताः श्रावकाः 'दंसण'त्ति
HOROGROGROGROLGHOROORK
॥४
॥