________________
धर्मनिरास
श्रीप्रवचन- जइ जगठिईवि एसा जुत्ता एआरिसं जया कुमयं । उप्पज्जइ एआरिसवायणपमुहेहिं संजुत्तं ॥४३॥ परीक्षा
यदि जगत्स्थितिरप्येषा यल्लुंपकमते तथा वाचनशक्तिरर्थकरणशक्तिश्चेति सा युक्ता यदैतादृशं कुमतमुत्पद्यते तदैतादृशवचन८विश्रामेा
प्रमुखैः संयुक्तमेवोत्पद्यते, अयं भावः-यदा कदाचित्तथाविधलोकानामशुभकर्मोदयादनन्तेनापि कालेनैतादृशं कुमतमुत्पद्यते तदा ॥४ ॥
लुम्पकवद्वाचनशक्तिरर्थकरणशक्तिश्च जगत्स्थित्योत्पद्यत एव, अन्यथा स्वय गृहस्थेन सताऽङ्गादिपाठवाचनं चैत्यादिशब्दानां साध्वाद्यर्थकरणं वाऽसंभव्येव, नीतादृशं महापातकमङ्गीकृत्य कोऽपि ब्रुवाणः संभवेदितिगाथार्थः ॥४३॥ अथ पुरुषायत्तां तां ब्रुवाणस्य | लुम्पकस्य किं स्यादित्याह
अह जइ दोण्हंपंता दोवि विगप्पा पुरिसपरतता। ता अच्छिन्ने तित्थे आयरिअपरंपरा सिद्धा॥४४॥
अथ यदि द्वयोरपि युग्मयोरन्त्यौ द्वावपि विकल्पौ-वाचनपद्धतिर्थावाप्तिश्चेति पुरुषपरतत्री-पुरुषायत्तौ 'ता' तर्हि अच्छिन्ने तीर्थे आचार्यपरम्परा सिद्धा, आचार्यपरम्परामन्तरेण पुरुषपारतन्त्र्यासंभवादितिगाथार्थः॥४४ । अथानन्यगत्या सिद्धायामप्याचार्यपरम्परायां लुम्पकस्य किं संपन्नमित्याहएअं तुम्भ अणिटुं दिढं तुह वयणओवि विण्णायं । तम्हा तुह पहलाहो पुत्थाओ अलिअवयणमिणं ॥४५॥
एतत्प्रागुक्तमाचार्यपरम्परादिकं तव-लुम्पकस्यानिष्टं दृष्टं साक्षात्सर्वजनैरपि, अपि पुनस्तव वचनाद्विनातं, पृष्टोऽपृष्टो वा त्वं | खयमेव वदसि यदसामिराचार्यपरम्परा नाभ्युपगम्यते,तस्मात्कारणात् तव पथलाभा-त्वत्पथावाप्तिः पुस्तकाद् ,इदमलीकवचनं-यत्त्वं वदसि मयाऽयं मार्गः पुस्तकादवाप्त इत्यलीकवचनमितिगाथार्थः॥४५॥ अथ पुस्तकेनैव पुस्तकामिमानं निरस्थन् गाथायुग्माह
GHONOUGH
SHOUGHOUGHOUGHOUGHOUGHOUSONG