________________
बीप्रवचनपरीक्षा ८ विश्रामे ॥४४॥
बायणकला सहोत्था पुरिसायत्ता य किंच तुम्भ मए । एवं सिद्धंतत्थे पुच्छेअव्वंपि तित्थं णं ॥४०॥
भो लुम्पक! वाचनकला-पुस्तकवाचनशक्तिस्तव मते सहोत्था लुम्पकमते यदा मतिस्तदानीं तत्क्षणादेव वाचनकला स्याद् ,एवं | किंवा चःसमुच्चये पुरुषायत्ता-गुर्वायचा, एवम्-अमुना प्रकारेण सिद्धान्तार्थेऽपि तीर्थे नः प्रष्टव्यं, सिद्धान्तार्थावगमशक्तिरपि सहोत्था ail उत पुरुषायत्तेति विकल्पद्वयी तीर्थेन तीर्थान्तर्वर्त्तिना येन केनापि निपुणेन प्रष्टव्यमितिगाथार्थः ॥४०॥अथोक्तविकल्पद्वययुग्मे
प्रथमविकल्पावेव विकल्पयन्नाह| दोण्हंपि दो विगप्पा पढमा किं ते मयस्स अइसयओ। अहवावि जगसहावोज उभयं होइ सहसिद्धं ॥४॥
'योरपि' विकल्पद्वययुग्मयोः वाचनकला सहोत्था उत पुरुषायत्ता चेति विकल्पद्वयं प्रथम, द्वितीयं च सिद्धान्तार्थावगमशक्तिः सहोत्था उत पुरुषायत्ता वेत्येतयोईययुग्मयोर्मध्ये प्रथमौ विकल्पौ-वाचनकला सिद्धान्तार्थावगमशक्तिश्चेतिरूपी किं ते-तव मतस्यातिशयात्-अतिशयविशेषादथवा जगत्स्वभावः यदुभयमपि तव मते सहसिद्धं भवतीतिगाथार्थः॥४१॥ अथोपहास्येन दूषयबाह
एसो खलऽइसओ ते मयंमि जुत्तो अजेण साहुत्ति । वुच्चइ चिइसद्देणं मुद्दा तित्थाउ बज्झस्स ॥४१॥
एष तव मते खलु-निश्चितमतिशयो युक्तो, येन तीर्थाद्वाह्यस्य मुद्रा-चिहुं चैत्यशब्देन साधुरित्युच्यते इत्युपहास्य, यतश्चैत्य|शब्देन साधुरिति केनापि तीर्थवर्जिना पण्डितेन काप्यागमे भणितं नास्ति, प्रत्युत चैत्यशब्देन जिनप्रतिमा जीवामिगमे भणितेति पुरो वक्ष्यते, अयं चान्यथा ब्रुवाणोऽतिशयवानेव, तस्माद्वस्तुगत्याऽयं खलातिशयो बोध्यः, खलो दुर्जनस्तद्वदयमतिशयः खलाति-d शयस्तवैव युक्तो, नान्येषां, इखत्वं च प्राकृते बाहुलकत्वादितिगाथार्थः ॥४२॥ अथ जगत्स्थितिमिष्टापत्त्या दुषयितुमाह
en