________________
श्रीप्रवचन
परीक्षा
स्वप
८ विश्रामे ॥४०॥
GOOHORTHOUGHOUGHONGKONGKON
इति-अमुना प्रकारेण भगवत्यङ्गभणितं-सम्मतितया दर्शितं यद्भगवतीवचनं भो लुम्पका! लुम्पकमूले-युष्माकं धर्मे न संभवेद् , | यतो लुम्पकलेखकेन प्रतिमापूजादिपातकलक्षणो धर्मः कस्यापि जैनस्य पार्श्वे श्रुतो नास्ति, किंतु खयमेव तन्मूलीभृतः, अत एव लुम्पकधर्मस्यादिकर्तृत्वेन तत्तीर्थकृदपि लुम्पक एव, नान्यः कश्चिद् , एवं शेषाणामपि कुपाक्षिकाणां दिगम्बरराकारक्तौष्ट्रिकाञ्चलिकसार्द्धराकागमिकपाशवन्ध्यादीनामपि बोध्यं, तत्तन्मतानां शिवभूतिचन्द्रप्रभजिनदत्तनरसिंहादिभ्यः प्रथमतः प्रवृत्तत्वात् तत्तीर्थ-18 कृतोऽपि शिवभृत्यादय एव, न पुनः श्रीवीरादयः, एतेन येषां श्रीभगवत्यङ्गं प्रमाणं तैरेते शिवभृत्यादिसन्तानीया निजनिजमार्गमुपदिशन्तः प्रथमवृष्टयुत्पन्नाः सम्मूर्छिमदर्दुरा इव पूत्कुर्वाणा अवगन्तव्या इति दर्शितमितिगाथार्थः ॥३२॥ अथ लुम्पकामिमतं दृष्टधर्म दूषयितुमाहजइ तुहहिमओ धम्मो दिट्ठो सिद्धंतपुत्थए अस्थि । ता तइवि पुत्थयं खलु अण्णेसिं दंसणिजति ॥३३॥
ननु भो लुम्पक! यदि तव सिद्धान्तपुस्तके दृष्टो धर्मोऽभिमतः-सम्मतोऽस्ति 'ता' तर्हि त्वयाऽप्यन्येषां धर्मबुभुत्ससा त्वदमिमुखानां पुस्तकं-खलुरवधारणे पुस्तकमेव दर्शनीयं, त्वयाऽपि तथवोपलब्धेरितिगाथार्थः ॥३३॥ अथ लुम्पकमते यदकल्प्यं तदाह
नय वायामित्तणवि कप्पइ वोत्तुंपि कस्सई पुरओ। जइ ते धम्मो पुत्था कहं न अण्णेसिमवि हुज्जा?॥३४॥ ___ न च कस्यचित्पुंसो वाङ्मात्रेणापि वक्तुं कल्पते त्वया, इदं सिद्धान्तपुस्तकं दृष्ट्वा धर्मः श्रद्धेयः कर्त्तव्यश्चेत्यपि वक्तुं न युज्यते, इत्थमपि त्वया काप्यश्रवणात् ,भो लुम्पक! यदि तव तथोपदेशमन्तरेण केवलपुस्तकाद्धर्म कथमन्येषामपि पुस्तकान्न भवेद् ?,अपितु भवेदेवेति वाचा त्वया मौनमेव कर्त्तव्यतया संपानं, न ह्यश्रुतधर्मा कस्यापि धर्म श्रावयतीति तात्पर्य संपन्नमितिगाथार्थः॥३४॥
HIGHOOOOOOOOOK
॥४०॥