SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ परीक्षा श्रीप्रवचन८ विश्रामे ॥३७॥ त्पन्नस्तत्संतानीभृय प्रवर्त्तमानो दृश्यते, तथा प्रवृत्तौ च जगद्व्यवस्थाविप्लवः प्रसज्येत, तस्मात् लुम्पकमाणकापत्यत्वमात्मनः ख्यापयन् सम्यग्वादी स्याद् , अन्यथा मृषाभाषी लोकव्यवहारबाह्यश्च,नहि लोकेऽपि नीचचाण्डालादिकुलोत्पन्नोऽपि स्वपित्रादिकमपलप्य कुलीनं महर्द्धिकं वा पित्रादिकं ब्रूते, अयं च लुम्पकमाणकावपलप्य सुधर्मादिकं पितृत्वेन ब्रुवाणस्ततोऽपि नीच इति बोध्यमितिगाथार्थः ॥ २८ ॥ अथ लुम्पकखरूपं कीदृक् सिद्धमित्याह एवं गुणनिष्फण्णं नामं तुम्हाण तुम्ह वयणेणं । अव्वत्तावत्तव्वा तुम्हे सेसा अवत्तव्वा ॥२९॥ एवं-प्रागुक्तखरूपेण युष्माकं वचनेनैव युष्माकं गुणनिष्पन्नं नाम अव्यक्तावक्तव्या यूयमिति सिद्धं, तत्राव्यक्ता जैनशैवबाह्या उत्सूत्रभाषिणो भण्यन्ते, तेष्वपि लुम्पका अवक्तव्या-अमुकस्यापत्यानि वयमिति नाममात्रेणापि वक्तुमशक्ताः, शेषास्तु राकारक्तादयो नाममात्रेणामकस्थापत्यानि वयमिति ब्रुवाणा अव्यक्ता एवेत्यपरैः सह भेद इतिगाथार्थः॥२९॥ इतिगाथाषट्रेन लुम्पकस्वरूपं दर्शितमिति ॥ इति लुम्पकवरूपं ॥ लुम्पकमते धर्मप्राप्तिखरूपं विकल्प्य दूषयितुं प्रश्नयबाहणणु तुम्हाणं धम्मो सुअधम्मो किमुअदिधम्मोवा। पढमोसुअधम्माओगुरुओ नय असुअधम्मावि ।३०।। ननु भो लुम्पका ! युष्माकं धर्मो-जिनप्रतिमोत्थापनादिरूपः श्रुतधर्मः किमुत दृष्टधर्मो वेति विकल्पद्वयी प्रश्नविषयीकार्या, तत्र श्रुतः कस्यापि गुरोः समीपे श्रवणगोचरीकृत एवंविधो यो धर्मः स श्रुतधर्मः, गुरुवचनं श्रुत्वा ज्ञात इत्यर्थः, दृष्टधर्मस्तु यद्यपि न भवत्येव तथापि पुस्तकं दृष्ट्वाऽसामिधर्मोऽवगत इति लुम्पकमताभिप्रायेण द्वितीयविकल्प उद्भावित इति, विकल्पद्वये प्रनिते प्रथमविकल्पस्य श्रुतधर्मस्य स्वरूपमाह-प्रथमः-श्रुतधर्मो गुरुतो-गुरोः सकाशाद्भवति, गुरुवचनं श्रुत्वैव भवतीत्यर्थः, तत्र गुरुपि जालनाKOUGHOUGHOUG
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy