SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन लुम्पक परीक्षा Gray ८ विश्रामे ॥३६॥ च-अत्रापि प्रष्टव्यं-भो भवतां लुम्पकमतपरम्परा सम्मता असम्मतावा ?, आये श्रीसुधर्मखामिनोच्छिमागतया परम्परया किमप| राद्धं १, यतस्तां परम्परां परित्यज्य लुम्पकमतपरम्पराऽभ्युपगम्यते, एवं च सति खमुखेनैव जैनप्रवचनाद्वाह्यत्वमप्यात्मन उद्घोषि-| तम् , अथ लुम्पकमतपरम्परापि न सम्मतेति द्वितीयपक्षश्चेत् सम्मतमेव ब्रूषे, परमध्यक्षमेव मृषाभाषित्वं लक्ष्यते, नो चेल्लुम्पकमतपरम्परात्यागे जिनप्रतिमाया अवश्यमेव स्वीकारापत्तेः कथं जिनप्रतिमा नाराध्यते , तसात्परम्पराऽस्माकं न प्रमाणमिति वदता लुम्पकमतपरम्पराङ्गीकारे च माता मे वन्ध्येति न्यायोऽभ्युपगत इतिगाथार्थः॥२६॥ अथ शैवधर्मित्वमपि लुम्पकस्य नास्तीति दर्शयति सिवधम्मिआ य हरिहरबंभाईणं हवंति भत्तिजुआ। तंपि अणिठं तुम्हं तम्हा तइए अवत्तव्वा ॥२७॥ शैवधार्मिका हरिहरब्रह्मादीनां भक्तियुता भवन्ति, तदपि युष्माकमनिष्टं, तस्मात्कारणात् तृतीये-जैनशैवधर्मव्यतिरिक्त विकल्पे | अवक्तव्या भवन्तो, न पुनर्वक्तव्या इति पारिशेष्यात्संपन्नमितिगाथार्थः ॥२७।। अथ यत एवं ततः किमागतमित्याह तेणमवलाववयणं जुत्तं तुम्हाण धम्मदायाणं । उवएसवेसमूलाणं(ण हुोलुंपगभाणगाणंपि ॥२८॥ येन कारणेन न जैना न च शैवाः, किंतु ताभ्यांव्यतिरिक्तास्तत्राप्यवक्तव्या-न पुनरमुकनाम्नेति वक्तुं शक्यास्तेन कारणेना| पलापवचनं युक्तं,केषां ?-युष्माकं धर्मदायकयोः-प्रतिमानिन्दात्मकमार्गदात्रोः, किंनाम्नोः? लुम्पकभाणक्योः लुम्पकमाणकनाम्नोः, किंलक्षणयोः १-उपदेशवेषमूलयोः, अपिळवहितः संबध्यते, उपदेशवेषमूलयोरपि उपदेशमूलं लुम्पको वेषमूलं च भाणक इति द्वयोरपि नामाप्यपलप्य वयं श्रीसुधर्मखामिनोऽपत्यानीति प्रत्यक्षमृषाभाषिणः, नाच्छिन्नशिष्यप्रशिष्यादिसंबन्धमन्तरेण कोऽपि कस्याप्यपत्यं भवितुमर्हति, एतच्च लोकेऽपि प्रतीतमेव, न हि कोऽपि कस्यापि कुलाचारमङ्गीकृत्यापि तद्गृहे वसमानोऽपि तत्कुलानु SHOWGOOOOOOOOOOO ॥३६
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy