________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥३५॥
इति चित्रम् - आश्चर्यमनन्तकालभावीत्यर्थः नह्येवमुपदेशं ददतो लुम्पकस्य मुखाद्बलवता तीर्थेन दन्ता नोद्भियन्ते, अपि तूद्भियन्त एव, तच्च साम्प्रतं न दृश्यते, प्रत्युत कैश्चिदज्ञानवश जैनशासनसंबन्धितया व्यवहियते, एतच्चाश्चर्यादप्याश्चर्य, महापापमित्यर्थः | ॥ २३ ॥ अथैवमाश्चर्यं दर्शयित्वा चतुर्भिः प्रकारैर्लुम्पकखरूपं चर्च्यते
अह लुंपगस्सरूवं १ तप्पहपत्तीवि २ तस्स उवएसो ३ । सिद्धांतेति ४ चउक्कं विआरणिज्जं कमेणेवं ॥ २४ ॥ ‘अथे’त्याश्चर्यसमर्थनानन्तरं लुम्पकखरूपं १ तत्पथप्राप्तिः २ अपि पुनस्तस्योपदेशः ३ सिद्धान्त ४ वेति चतुष्कं क्रमेणैवंवक्ष्यमाणयुक्तिप्रकारेण विचारणीयं धर्मपरमार्थज्ञैर्लुम्पकेन सहेति गम्यमितिद्वारगाथार्थः ॥ २४ ॥ अथ लुम्पकस्वरूपपरिज्ञानार्थं प्रश्नमाह - णणु पुच्छामो अम्हे तुम्हे जिमि व सिवधम्मा ! | अहवा दोहिवि भिण्णा वत्तव्वा वा अवत्तव्वा || २५ | ननु वयं पृच्छामो-यूयं जैनधर्मिका उत शैवधर्मिका वा अथवा द्वाभ्यामपि भिन्नाः १, एवंविधा अपि वक्तव्या - वाचां गोचरा वा-अथवा अवक्तव्या - वक्तुमशक्या इतिविकल्पाः प्रष्टव्या इति गाथार्थः || २५ || अथ प्रथम विकल्पोऽसंभवीत्याह
जिधम्म यतित्थे अच्छिन्ने हुंति सूरिसंताणा । तं तुम्हाणवि वायामित्तेणवि मत्थए सूलं ।। २६ ॥ जैनधर्मः - आर्हतशासनं तद्विद्यते श्रद्धानादिरूपतयेति जैनधर्मिकाः ते चाच्छिन्ने - सततप्रवृत्तिमति तीर्थे सूरिसंतानाद्-आचार्यसन्ततेः स्युः, हेत्वर्थे पञ्चमीति आचार्यसन्ततिमन्तरेण न भवन्तीत्यर्थः, तद्युष्माकमपि - लुम्पकानामपि अपिशब्दाद्राकाञ्चलिकादयो ग्राह्याः, तेषामप्याचार्य परम्पराया अनङ्गीकारात्, तदङ्गीकारे चतुर्दशीमुखवत्रिकाद्यङ्गीकारापत्तेः, वाङ्मात्रेणापि भवतां किं नाम्न्याचार्यपरंपरेति केनचिदुक्ते मस्तके शूलमिवानिष्टं भवति, अत एव लुम्पकेन नास्माकमाचार्यपरम्परा प्रमाणमित्युद्घोष्यते, किं
GHONGKONG HONGKONGC GHORONGHO
लुम्पक
स्वरूपं
॥३५॥