SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३५॥ इति चित्रम् - आश्चर्यमनन्तकालभावीत्यर्थः नह्येवमुपदेशं ददतो लुम्पकस्य मुखाद्बलवता तीर्थेन दन्ता नोद्भियन्ते, अपि तूद्भियन्त एव, तच्च साम्प्रतं न दृश्यते, प्रत्युत कैश्चिदज्ञानवश जैनशासनसंबन्धितया व्यवहियते, एतच्चाश्चर्यादप्याश्चर्य, महापापमित्यर्थः | ॥ २३ ॥ अथैवमाश्चर्यं दर्शयित्वा चतुर्भिः प्रकारैर्लुम्पकखरूपं चर्च्यते अह लुंपगस्सरूवं १ तप्पहपत्तीवि २ तस्स उवएसो ३ । सिद्धांतेति ४ चउक्कं विआरणिज्जं कमेणेवं ॥ २४ ॥ ‘अथे’त्याश्चर्यसमर्थनानन्तरं लुम्पकखरूपं १ तत्पथप्राप्तिः २ अपि पुनस्तस्योपदेशः ३ सिद्धान्त ४ वेति चतुष्कं क्रमेणैवंवक्ष्यमाणयुक्तिप्रकारेण विचारणीयं धर्मपरमार्थज्ञैर्लुम्पकेन सहेति गम्यमितिद्वारगाथार्थः ॥ २४ ॥ अथ लुम्पकस्वरूपपरिज्ञानार्थं प्रश्नमाह - णणु पुच्छामो अम्हे तुम्हे जिमि व सिवधम्मा ! | अहवा दोहिवि भिण्णा वत्तव्वा वा अवत्तव्वा || २५ | ननु वयं पृच्छामो-यूयं जैनधर्मिका उत शैवधर्मिका वा अथवा द्वाभ्यामपि भिन्नाः १, एवंविधा अपि वक्तव्या - वाचां गोचरा वा-अथवा अवक्तव्या - वक्तुमशक्या इतिविकल्पाः प्रष्टव्या इति गाथार्थः || २५ || अथ प्रथम विकल्पोऽसंभवीत्याह जिधम्म यतित्थे अच्छिन्ने हुंति सूरिसंताणा । तं तुम्हाणवि वायामित्तेणवि मत्थए सूलं ।। २६ ॥ जैनधर्मः - आर्हतशासनं तद्विद्यते श्रद्धानादिरूपतयेति जैनधर्मिकाः ते चाच्छिन्ने - सततप्रवृत्तिमति तीर्थे सूरिसंतानाद्-आचार्यसन्ततेः स्युः, हेत्वर्थे पञ्चमीति आचार्यसन्ततिमन्तरेण न भवन्तीत्यर्थः, तद्युष्माकमपि - लुम्पकानामपि अपिशब्दाद्राकाञ्चलिकादयो ग्राह्याः, तेषामप्याचार्य परम्पराया अनङ्गीकारात्, तदङ्गीकारे चतुर्दशीमुखवत्रिकाद्यङ्गीकारापत्तेः, वाङ्मात्रेणापि भवतां किं नाम्न्याचार्यपरंपरेति केनचिदुक्ते मस्तके शूलमिवानिष्टं भवति, अत एव लुम्पकेन नास्माकमाचार्यपरम्परा प्रमाणमित्युद्घोष्यते, किं GHONGKONG HONGKONGC GHORONGHO लुम्पक स्वरूपं ॥३५॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy