________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥३४॥
प्रतिमाया बलवचा
HONOROUGHOGOHORGOOG
बलवत्कारणमन्तरेण बलवत्कार्यानुपपत्तेः, नहि तृणसामग्र्या तरुर्जन्यते, तत्कारणं खलुरवधारणे आश्चर्यान्नान्यत् संजिना-सम्यग्दृशां मतिविषयो-ज्ञानगोचरः स्यात् , किंत्वाश्चर्यमेव तत्कारणमनन्यगत्या सिद्धमितिगाथार्थः ॥२१॥ ननु सिद्धान्तादपि प्रतिमानां बलवत्वं कथमिति पराशङ्कायां गतिमाह
बलवत्तं साविक्खं साविकखं चेव दुब्बलतंपि । पणिस्सं पडिमाणं तस्सुवएसाहिगारंमि ॥२२॥
प्रतिमानां सिद्धान्तापेक्षया बलवत्त्वं सापेक्षं, दुर्बलत्वमपि सापेक्षमेव, 'प्रभणिष्यामि' प्रकर्षेण-दृष्टान्तबाहुल्येन भणिष्यामि, कसिन् १-तस्योपदेशाधिकारे-लुम्पकस्योपदेशोऽग्रे वर्णयिष्यते तत्र तन्निराकरणप्रसङ्गगतं वक्ष्यामीतिगाथार्थः ॥२२॥ अथ पुनरप्याश्चर्य द्रढयति
तत्तोऽवि अ बलवंते तित्थे संतंमि नत्थि सिद्धते । जिणपडिमाइ अचित्तं वुच्चंतो दंतवंतमुहो ॥ २३ ॥
ततोऽपि-जिनप्रतिमाया अपि च पुनरर्थे बलवति तीर्थे सति-विद्यमाने,सिद्धान्ताजिनप्रतिमा बलवती, ततोऽपि तीर्थ बलवद्, तीर्थकरनमस्करणीयत्वाद्, धर्मदेशनायां नमस्तीर्थायेति भणित्वा धर्ममुपदिशति जिनेन्द्रोऽपि, यदागमः-"तित्थपणाम काउं कहेइ साहारणेण सद्देणं । सव्वेसि सन्नीणं जोअणनीहारिणा भयवं॥२॥"ति (श्रीआव०नि०५६६) न चैवं नमः सिद्धान्ताय जिनप्रतिमायै वेति, तसात्तीर्थ सर्वेभ्योऽपि बलवद् , अत एव तीर्थाभ्युपगतपर्युषणाचतुर्थीमनङ्गीकुर्वनर्हदादीनां सर्वेषामप्याशातनाकारी तीर्थबाह्यो नियमादनन्तसंसारीत्यादिवचोमिर्भणितोऽपि सिद्धान्तसम्मत्या समर्थितः स्वोपज्ञपर्युषणादशशतकवृत्तावपि,एवं च सर्वबलसंपन्ने तीर्थे विद्यमानेऽपि सिद्धान्ते भणितं नास्तीत्याधुपदेशं ददत् सर्वजनसमक्षं प्रलपन लुम्पको दन्तवन्मुखो-दशनसंयुक्तानन
॥३४॥