SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रतिमाया बलवचा श्रीप्रवचन- ॥१॥"त्ति श्रीबृह० प्रागुक्तं, तत्र प्रतिमा सम्यक्त्वादिहेतुः इत्येवंरूपेणोपदेशवचनरचना,तस्साच्ड्रावकैर्निर्मापिताः श्रावकनिर्मापिताः | परीक्षा जप्रासादा उपलक्षणात् प्रतिमाप्रतिष्ठादयो बलवन्तः, किमर्थ ?-'प्रत्ययार्थ' प्रतिवाद्युद्भावितविप्रतिपत्तौ निश्चयकरणार्थ, न पुनः सर्व८ विश्रामे त्रापि, अयं भावः-जिनप्रासादप्रतिमादयः सम्यक्त्वादिप्राप्तिहेतवो भवन्तीत्यत्र किं प्रमाणं प्रत्यक्षमागमो वेत्यादिविचारणायामाग॥३२॥ मापेक्षया प्रत्यक्षं बलवत् , प्रासादादयस्तु प्रत्यक्षं प्रत्यक्षप्रमाणविषयत्वात , तथाहि-'आप्तोक्तिः समयागमा वितिवचनादाप्तवचनं |हि सिद्धान्तः, तत्रागमव्यवहारिणः पूर्वोक्ताः षट् पुरुषा नियमेनाप्ताः, शेषास्तु भाज्याः, तत्र श्रीआर्यसुहस्तिमूरिस्तावद्दशपूर्वधरस्तत्प्रतिबोधितेन संप्रतिराज्ञा(जेन)प्रासादप्रतिमाप्रतिष्ठापूजादिकं कारयता कुर्वता च श्रीआर्यसुहस्तिसूरिधर्मोपदेशवचः सफलीकृतं, बहुवित्तव्ययसाध्यस्य जिनप्रतिमाप्रासादादेः कृत्यस्य गुरूपदेशमन्तरेणासंभवात् ,प्रवचने धर्मकृत्यस्याज्ञयैव सफलत्वाद् ,आज्ञामन्तरेणापि जिनप्रतिमाप्रतिष्ठानिषेधकगुरुप्रतिबोधितश्रावककारितजिनप्रासादप्रतिमादेरसंभवात् , नहि लुम्पकमतीयेन केनापि कापि जिनप्रासादादिकं विधाप्यमानं दृष्टं श्रुतं वा, तथा च श्रीसुहस्तीसूविचः सिद्धान्तः, तच्च फलवद्भवति वा नवा, परं श्रीसंप्रतिराज्ञा तु तद्विहितमेव, अतः सम्यक्त्वादिहेतुतया जिनप्रासादादिकं चक्षुरादिप्रत्यक्षप्रमाणविषयः सिद्धान्तापेक्षया बलवदेवेतिगाथार्थः॥१७॥ अथ प्रकारान्तरेणापि बलवत्त्वमाह मइदोसा सहत्थं होइ समत्थोऽवि अण्णहा वोत्तुं । जह चेइअसद्दत्थं साहुत्ति भणइ मइमूढो ॥१८॥ मतेर्दोषो-मिथ्यात्वं तद्वशाच्छब्दार्थमन्यथा वक्तुं समर्थो भवति, यथा मतिमूढो लुम्पकश्चैत्यशब्दार्थ साधुरिति भणति, चैत्यशब्देन साधुण्यते इत्यन्यथा ब्रुवाणस्य लुम्पकस्याशुचिलिप्तं लपनं कः पाणिना पिदधातीत्यर्थः, इतिगाथार्थः ॥१८॥ अथ सिद्धान्त | DIDRO GHOGOनःOHOS.GOOG ॥३२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy