________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥३१॥
DIGH
ONGION:
CHONEYONGHONGKONG HIGHDI Site
| १५८७ वर्षे पत्तनपार्श्ववर्त्तिकतवपुरे प्रव्राज्य निजपट्टे स्थापितः, स च संप्रत्यप्यस्तीत्येवं व्यतिकरे प्रायस्तदीयानामपि बहूनां प्रतिमाया | सम्यग्परिज्ञानाभावात् परिज्ञाने वा प्रयोजनाभावात् प्राय उत्तरोत्तरभाविनामधिकजातत्वाल्लजाहेतुर्निर्मूलप्रवृत्तिमल्लुम्पकभाणकाभिधानमनभिधानं वा नाश्चर्यकरमिति बोध्यमिति गाथार्थः ॥ १२ ॥ अथ पुनरप्याश्चर्यं समर्थयितुं गाथादशशतकं बिभणिषुः
बलवचा
प्रथमगाथामाह
अण्णह संपइरायप्पमुहेहि कराविआ य जिणभवणा । पञ्चकखं दीसंता कह लोविजंति पावेहिं? ॥ १६ ॥
अन्यथा-यद्याश्चर्यं न स्यात्तर्हि सम्प्रतिराजप्रमुखैः - दश पूर्वघर श्री आर्य सुहस्तिसूरिप्रतिबोधितसंप्रतिराजाऽद्यापि प्रसिद्धः तदादिभिः, आदिशब्दादामराजश्रीकुमारपालराजादयो ग्राह्याः, तैः कारिता ये जिनभवनाः, भवनशब्दः पुंनपुंसकः, प्रत्यक्षं दृश्यमानाः - सम्प्रति विद्यमानाः, न पुनरतीतादिकालव्यवहिताः परोक्षा इत्यर्थः, ते पापैर्लुम्पाकैः कथं लोप्यन्ते - निषेधोपदेशद्वारा पराक्रियन्ते, यद्येतन्मतमाश्चर्यभूतं न स्यात्तर्हि तथाविधाः प्रासादा लोपयितुमशक्या इतिगाथार्थः ॥ १६ ॥ अथोक्तसमर्थनाय हेतुमाहआगमओ बलवंता आगमववहारिधम्मउवएसा । सावयणिम्मविआ जिणपासाया पच्चयट्ठाए ||१७|| आगमतो- जिनोक्तसिद्धान्तादपिर्गम्यः सिद्धातादप्यागमव्यवहारिणां -अवधिमनःपर्यायकेवलिनो नवदश्चतुर्द्दशपूर्वविदश्चेति षट् पुरुषास्तेषां यो धर्मोपदेशः - जिनभवनादिनिर्मापणं द्रव्यस्तवो भावस्तवहेतुत्वात् श्रावकाणां युक्त एव यदागमः - " अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वथए कूवदिद्वंतो || १ || श्री आव० नि० (१९६ भा० ) तथा “तित्थ - यरो १ जिण २ चउदस ३ भिण्णे ४ संविग्ग ५ तह असंविग्गे ६ । सारूविअ ७ वय ८ दंसण ९ पडिमाओ १० भावगामाउ
॥३१॥