________________
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥२९॥
श्रुतदेवतादिस्तुति सिद्धि
HOUGHOUGHOUGHOUGHOROजार
सप्तपदमन्येषामप्युपलक्षकं, तच्च प्राग् प्रथमविश्रामे दर्शितं, न च सप्तपदमुपलक्षकं बहुषु ग्रन्थेषूक्तं, परं दशपदं तु कापि नोक्तमिति वाच्यं, तस्यापि श्रीहरिभद्रसूरिणा पञ्चवस्तुके भणितत्वात् , ननु लुम्पकमते प्रथमो वेषधरो भाणको जात इत्येवमिदानीं तदीया न भणन्ति तत्कथमिति चेदुच्यते-अन्यायोत्पन्ना हि पित्रादिकमपलपन्त्येव, कथमन्यथा के यूयमित्यादिवचोमिः प्रेरिताः सन्तः लुम्पाक इति प्रसिद्धनामाप्यपलप्य वयं जैनमतय इति भणन्ति, यथा आञ्चलिका वयं विधिपक्षीया इतिवादिनो भवन्ति, किंचकः केन प्रकारेण के नामग्राहं गुरुं भणति ?, यतो जिनप्रतिमापूजायां दोषस्य वक्ता तावत्तथाविधमार्गकृत्योऽश्रुतधर्मा लुम्पकनामा सामान्यगृहस्थः, सोऽपि लौकिकमिथ्यादृष्टिमार्गपतितः,एवंविधोऽपि लेखक इत्येवंरूपेणाकिश्चित्करनिर्नामकपुरुषमूलकलुम्पकमागों म्लेच्छादिजातीयानामपि निन्दनीयः, तमपि मार्गमवलम्ब्य तथाविधक्लिष्टकर्मोदयादाणकनामा गृहस्थः स्वयमेवोक्तरूपं वेषं परिधाय लुम्पकमते साधुव्यपदेशविषयः संपन्नः, कञ्चनापि प्रव्राजनाचार्य गुरुत्वेन वक्तुमशक्तो लुम्पकापेक्षयाधिकजातस्तथाविधमुपदेशमधिकृत्य तन्मूलभूतमपि लुम्पकं लज्जया धर्माचार्यत्वेन न ब्रूते, तच्च युक्तमेव, यतस्तथा ब्रुवाणोऽपि कदाचित् केनचिदुदीरितो भो भाणक ! एतादृशोपदेशरूपो मार्गो लुम्पकेन कस पार्श्वे श्रुतः ?, तदानीं जारगर्भः पितरमिव कं गुरुं दर्शयतीति खयमेव पर्यालोच्यं, अत एव लुम्पकोपदिष्टमार्गमाश्रिता अपि लुम्पकमपलप्यासदीयो मार्गः श्रीवीरजिनेन प्रकाशित इत्येवंरूपेण श्रीवीरं दर्शयन्ति, | यत्तु वेषधरमपि भाणकं न भणन्ति तत्रेदमवगन्तव्यं, तथाहि-लुम्पको वेषधरस्तावत् द्विधा-गुर्जरत्रीया नागपुरीयाश्च, तत्र गुर्जरत्रीयाणां प्रथमो देषधरो रूपर्षिः, तेन सयमेव तथाविधो वेषः परिहितः, नागपुरीयाणां तु भाणकर्षिरुक्तलक्षणः स्वयमेव वेषं परि
नणु नेअमिहं पढियं सच्चं उबलखणं तु एयाई । अच्छेरगभूयंपि य भणियं नेयंपि अणवरयं ॥९२८॥ गाथायां स्पष्टतयोक्तत्वात
GROUGHOUGHOROUGHOUGHORG
॥२९॥