SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥२॥ EES HONGKONGHONOROGHONORONOONG एतत्-लुम्पकमतं खलु-निश्चितमाश्चर्य,किं?-यत्तीर्थास्पश्यपि लुम्पकसमुदायस्तीर्थाभासोजाता, तीर्थस्पर्शी हि राकारक्तादिस्तीर्थाभासो भवति तन्नाश्चर्य, यतस्तीर्थस्य साक्षात्परम्परया वा स्पर्शनावशात्तीर्थक्रियाभ्यासात् तदनुकृतिः संभवति, तशाच्च तदा| भासत्वमुपपद्यते, परं लुम्पाकमतस्य समुदायो सर्वजनविख्यातस्तीर्थाभासो जातस्तदाश्चर्यम् , आश्चर्यमपि कुत इत्याह-यद्-यस्मात्कारणादेतादृशमनन्तकालभावीतिगाथार्थः ॥१३॥ अथाश्चर्यखरूपमाह अच्छेरं पुण एवं अस्संभवि संभवेइ जं लोए । कालेण अणंतेणवि जह मरुदेवीह सिद्धत्तं ॥१४॥ आश्चर्य पुनरेवं यल्लोकेऽनन्तेनापि कालेनासंभवि संभवेत् , दृष्टान्तमाह-यथा मरुदेव्याः सिद्धत्वं, मरुदेवी श्रीऋषभजिन|जननी अनादिवनस्पतिभ्य उद्धृत्य सिद्धा तदनन्तकालभावित्वादाश्चर्यमितिवल्लुम्पकमतप्रवृत्तिरप्याश्चर्यमितिगाथार्थः ॥१४॥ अथा|श्चर्याणि तु दशैवागमे भणितानि, तेषामाधिक्यं च न युज्यते इति पराशङ्कामपाकर्तुमाह उवसग्गगम्भहरणप्पमुहा अच्छेरगावि दस समए। भणिआ तत्थवि दसपयमुवलकखणपरमिहं भणिअं॥१५॥ | 'उपसर्गगर्भहरणप्रमुखा' उपसर्गाः १ गर्भहरणं २ स्त्रीतीर्थ ३ अभाविता पर्षत ४ कृष्णस्थावरकवागमनं ५ चन्द्रसूर्ययोरवतरणं ६ हरिवंशकुलोत्पत्तिः ७ चमरोत्पातः ८ अष्टशतसिद्धाः ९ असंयतपूजा १० इति, यदागमः-"उवसग्ग १ गम्भहरणं २ इत्थी तित्थं ३ अभाविआ परिसा ४ । कण्हस्स अवरकंका ५ अवयरणं चंदसूराणं ६॥१॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पाओ अ८ अट्ठसयसिद्धा ९ । अस्संजयाण पूआ १० दसवि अणंतेण कालेणं ॥२॥(१०-१६७१)(पंच ९२६प्रव. ५८८)इति समये-जैनसिद्धान्ते, दश भणिताः, तत्रापि दशपदमुपलक्षणपरम् , अन्येषामप्याश्चार्याणामिह प्रवचने सूचकं भणितं, यथा-"सत्त पवयणनिहगा"इत्यत्र ॥२८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy