________________
श्रुतदेवता
श्रीप्रवचन-
परीक्षा ८ विश्रामे ||२७||
दिस्तुति
HDOHOROHOOHOOHOUGHOOHORG
न पुनस्तीर्थास्पर्शी लुम्पकमतसंबन्धी न वा तीर्थबाह्यो राकारक्तादिरपि, तेषामास्तां तीर्थपूजा, किंतु सिद्धान्तोक्तमार्गानुयायिनो वय| मिति पूत्कुर्वाणा अपि तीर्थबाह्या इमे इत्येवंरूपेण तीर्थतिरस्कारविषया इति नृपानुकृतिकारनटवत् साध्वनुकृतिकरो लुम्पकवेषधरो दर्शितः। पुनरपि दृष्टान्तमाह-राया' वत्ति वा-अथवा प्रकारान्तरेण दृष्टान्तो यथा रजःपर्वणि राजेव, यथा रजःपर्वणि राजा, सच वाहनारूढ'छत्रादिचिह्नवान् परिकरसमन्वितोऽपि नाम्नाऽपि राजेति ख्याति वहमानोराजानुकृतिमान् भवति,परं तत्रानुकृतेर्वाहनमात्रेण साम्येऽपि राज्ञोऽश्वो रजःपराजस्य तु गर्दभः एवं छत्रादिष्वपि भावनीयं, एवं लुम्पकवेषधरोपि तीर्थवर्तिसाधुवेषसाम्यभाग् | बोध्य इतिगाथार्थः ॥११॥ अथोत्पत्तिव्यतिकरस्योपसंहारमाह| इअ पडिमारूप्पत्ती उवएसा वेसओ अ दोभेआ। लिहगा तित्थस्सद्धाभासो इअराऽखिलाभासो॥१२॥
इति-अमुना प्रकारेण प्रागुक्तव्यतिकरण 'प्रतिमायुत्पत्तिः प्रतिमाया-जिनप्रतिमाया अरिस-वैरी प्रतिमारिस्तस्योत्पत्तिः द्विमेदा द्वौ भदौ यस्याः सा,कुत ?-उपदेशाद्-उपदेशमधिकृत्य,वेषतो-वेषमधिकृत्य,चेति समुच्चये, लुम्पकलेखकादुपदेशमधिकृत्य लुम्पकमतोत्पत्तिः, भाणकाख्याद् वणिजो वेषमधिकृत्य चोत्पत्तिरिति द्विप्रकारा लुम्पकमतोत्पत्तिर्भणितेति बोध्यम् ,उवदेशवेषाभ्यां कार्यभेदमाह-लेखकात्तीर्थस्यार्द्धाभासः-श्रावकश्राविकालक्षणस्तीर्थाभासः समुत्पन्न इत्यर्थः,इतरात्-माणकाख्यवेषधराद् अखिलाभास:| पूर्णाभासः-पूर्णतीर्थाभासः समुत्पन्नः, साधुसाध्वीश्रावकश्राविकालक्षणः पूर्णस्तीर्थाभास इतिगाथार्थः ।।१२।। अथ कालानुभावेन | यदेतत्कुमतं तत्कीदृशं श्रद्धेयमित्याहएअंखल अच्छेरं तित्थाफासीवि तित्थआभासो। जाओ जणविक्खाओ जमणंता कालओ भावी ॥१॥
HOSDHODOHOROHOOTOHORG
॥२७॥