SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भीप्रवचनपरीक्षा श्रुतदेवकादिस्तुतिसिद्धिः ॥२६॥ GROWORDIOHTOHOTOHOROIROMOKOT त्यादिविधिपुरस्सरं परम्परायातमरिमिदत्तो, न पुनः खयमुपातः, एवंविधो वेषो लुम्पकवेषधरस्य नास्त्यव, यतो रजोहरणोऽपि al नाममात्रेण, न पुनः परम्परायातपट्टकनिबद्धफलिकानिषद्याद्वयपरिकलित इत्यादि, तच्च सर्वजनप्रतीतमितिगाथार्थः ॥१०॥ | अथ वेषाद्धं तस्य किं सूचकमस्तीत्याहवेसद्धं पुण तित्थाफासस्सवि होइ चिन्धमिह पयडं । जह निवणुगारकलिओ नडोव राया वरयपव्वे ॥२१॥ वेषाद्धं पुनः प्रकटमिह-जगात चिह्न, कस्य ?-'तीर्थास्पर्शस्य' तीर्थस्य-श्रीवीरतीर्थव्यवस्थापिताच्छिन्नसाध्वादिसमुदायलक्षणस्य न विद्यते स्पर्शः-साक्षात्परम्परया वा संबन्धो यस्य स तीर्थास्पर्शस्तस्य, यस्तु साक्षात्परम्परया वा तीर्थस्पर्शी स्यात् तस्यान्यत्मरूपणादिकमन्यथाऽस्तु, परं वेषस्तु प्रायः पूर्णो भवति, यथा राकारक्तादीनां, यद्यपि कटिदवरकादिपरित्यागेन कथश्चिद्भेदस्तीर्थस्पर्शिनामपि दृश्यते तथापि बाह्यदृशां न तथा प्रतीतिविषयीभवतीति न दोषः, तत्र दृष्टान्तमाह-यथा 'नृपानुकारकलितः वेषादिना राजचेष्टाकारी नटो-नृत्यकर्ता आत्मसम्बन्धिनो जनान् राज्योपयोगिप्रकृतियुवराजामात्यादिजनतया विकल्प्य कृत्वा च छत्रादिचिह्नानि ततः स्वयं राजानुकृतिं कुर्वाणोऽपि कथंचित्किंचिदेवानुकृति करोति, न पुनः पूर्णा, स्वर्णादिसम्यगाभरणादिविभू|षितनेपथ्याभावाद्राजकुलानुत्पन्नत्वाद्राज्यशोभाकृत्त्वाभावाच्च, न वा स राजापि भण्यते, उक्तहेतुत्रयादेव, तथा नटवत् कथंचित्किचिन्मात्रसाधुवेषानुकृतिमानपि लुम्पकमते प्रथमवेषधरो भाणकाख्यो निजजनान् तीर्थोपयोगिसाधुसाध्वीश्रावकश्राविकादितया विकल्प्य प्रवर्त्तमानो न साधुन वा साधुवेषधरः स्यात् , किंतु उक्तप्रकारेण यदि संपूर्णसाधुवेषी स्यात्तदा साधुवेषधरो भण्यते, सोऽपि श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परायाततीर्थपूजालक्षणराज्यश्रीभोक्ता स्यात्तदा साधुरपि व्यवहारतो भण्यते, स च तीर्थान्तवयेव स्यात् , ॥२६॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy