________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥२५॥
E
पONGHOUGHOUS
पणवीसं वासाइं लिंगीहिं विरहिअंपि वुड़िगयं । तेतीसुत्तरपनरससएहिं वरिसेहिं वेसहरा ॥९॥
पञ्चविंशतीवर्षाणि यावल्लिंगिमिविरहितमपि-वेषधरैः शून्यमपि वृद्धिगतं-वृद्धि प्राप्तमित्यर्थः, स कोऽपि भसराशिग्रहावस्थावछिन्नः कालविशेषः परिणतो येन तत आरभ्य वर्षशतमध्ये बहूनि कुमतानि प्रादुर्भूतानि,यथा विक्रमतः सं०११५९ वर्षे राकारतो | निर्गतस्तत आरभ्य वर्षशतमध्ये त्रिस्तुतिकपर्यन्तानि बहूनि मतानि प्रवचनपीडाकारीणि समुत्पन्नानि, यदि लोकानुभावात् काल| विशेषपरिणतिर्नोच्यते तर्हि कथमेतादृशं नाम्नापि कुत्सितं गृहस्थलिङ्गधारिणो निर्नामकलुम्पाकपुरुषादपि प्रवृत्तं सत् सत्यपि बलवति तीर्थे वृद्धि याति, अवश्यभाविनो वस्तुनः स्थगितिबलवताऽपि कर्तुमशक्येतिभावः, अथ वेषधरोत्पत्तिकालमाह-'तेत्तीसुत्तरेत्यादि, |त्रयस्त्रिंशदुत्तरपश्चदशशतवर्षेः-१५३३ त्रयस्त्रिंशदधिकपञ्चदशशतैवर्षेः क्वचिच्च सं० १५३१ वर्षे वेषधराः लुम्पकोपदेशरुचिषु जनेषु लिङ्गिनः प्रादुरासन्निति गाथार्थः ॥९॥ अथ वेषधरेष्वपि प्रथमो वेषधरः किनामा कथं कीदृग्वेषं परिहितवानित्याह
तेसुवि भाणगनामा पढमो मूढोवि तंमि वेसहरो। सयमेव गहिअवेसं वेसोऽविअ साहुवेसद्धं ॥१०॥
तेष्वपि-लुम्पकवेषधरेष्वपि भाणकनामा-शिवपुरीसमीपवर्त्यरघट्टपाटकवास्तव्यप्राग्वाटज्ञातीयो भाणउ इति लोकोक्क्या, भाणकाख्यो हि पत्तने स्वयमेव वेषं गृहीत्वा 'तंमि' लुम्पकमते मूढोऽपि-मूर्योऽपि प्रथमो वेषधरोऽभूत ,वेषोऽपि च नान्यतीर्थिको नापि | जैनतीर्थिकः, किंतु साधुवेषार्द्ध-जैनसाधोर्यो वेषस्तस्या , किंचिदपि कथंचित्साधुवेषानुकृतिमात्ररूप इत्यर्थः, तत्कथमितिचेच्छृणुकटिदवरकनिबद्धपरिहितचोलपट्टको रजोहरणमुखवस्त्रिकासमन्वितः प्रावृतकल्पकस्कन्धोपरिकृतौर्णिको गृहीतवामकरदण्डकः परम्परायातविधिविद्धोभयकर्णकश्च पुरुषः साधुवेषधारी भण्यते, तस्य यो वेषः स संपूर्णो:वेषो भवति, सोपि, 'मम वेसं समप्पेहे
GिOOOOOOOOOHOOOZ
॥२५॥