SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८विश्रामे ॥२४॥ लुंपकमतोत्पत्तिः पडिमापूआदोसं भासह हिंसाइ मुहरमुहवयणो। जीवदया खलु धम्मोजिणभणिउत्ति मुहमंगलिओ॥७॥ हिंसया पृथिवीजलकुसुमादिजन्तुप्रभवया प्रतिमायाः पूजादोष-पूजायां पापं भाषते, किंलक्षणः सन् ?-मुखरमुखवचनःसन् , | मुखरस्येव मुखे वचनं यस्य स मुखरमुखवचनः, पाषाणनिष्पन्नायां प्रतिमायां पूजया किं स्यात् , प्रतिमा हि चेतनारहिता किं पूजा दिकं जानातीत्याहानार्यवचन इत्यर्थः, अथ केवलानार्यवचनेन जनो नामिमुखीस्यादतस्तदभिमुखीकरणाय यद् ब्रूते तदाह-जीवे| त्यादि, जिनमणितः-अर्हद्भाषितः खलु-निश्चितं जीवदया धर्मो भवति, यदागमः-"सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्तान हंतव्वा" इत्यादिप्रवचनवचनेनेति, मुखमांगलिक:-मुखेनैतावदेव मंगलं ब्रूते इति मुखमांगलिकः, पारमार्थिकविचारशून्योऽप्येतावन्मात्रमेव मुग्धजनपाशकल्पं ब्रूते इति, प्रतिमायां मुखरीभवन्नपि जीवदया धर्मो जिनभाषित एतावन्मात्रेण मुग्धजनप्रतारक इत्यर्थः | ॥७॥ अत तदानीं तस्य सहायकः कोऽप्यासीत् न वेत्याकाङ्क्षायामाह| तस्सवि एगो मंती नामेण लखमसीति सम्मिलिओ। दोवि उवएसमित्ता कडुउव्व पव्वट्टिआ पावा ॥८॥ तस्यापि आस्तामन्यस्याकिञ्चित्करस्य लुम्पकलेखकस्याप्येको मन्त्री-राजमान्योऽमात्यो नाम्ना लषमसीति सम्मिलितः-सम्यग् मिलितः,अभ्यन्तरीभूतो मिलित इत्यर्थः,द्वावपि पापौ-पापात्मानौ उपदेशमात्रात्-केवलोपदेशदानादेव,न पुनः किञ्चिच्चारित्राभासानुष्ठानेनापि, प्रवर्तितौ, किंवत् १-कटुकवत् , यथा कटुकनामा गृहस्थो वक्ष्यमाणलक्षणः खयं साधुदोषमुद्भावयन् मुग्धजनविप्रतारणे प्रवृत्तस्तथाऽमृ अपि खयं साध्वादिवेषशून्यावपि साधुदोषं प्रतिमादोषं चोद्भावयन्तावेव प्रवृत्तावित्यर्थः इति गाथार्थः ॥ ८॥अथैवं कियत्कालं प्रवृत्तिरासीदित्याह ॥२४॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy