________________
लुंपकमतोत्पत्ति
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥२३॥
GHORGHOIGOROUGUGG
कारणादुत्पन्नं हि वस्तु निर्निमित्तकमेवोच्यते, यथाऽयमकाले मृत इत्यत्र कालमन्तरेण मरणासंभवेऽपि अतर्कितकाले मृतो ह्यकाल-| मृत एव भण्यते इतिगाथार्थः ॥३॥ अथ व्यतिकरं दर्शयित्वाऽन्वयमाह
इह एगो नामेणं लुंपगलिहगोवि गुजरत्ताए । लोहेणंतरपत्तं छड्डिअ सिद्धंतमा लिहई ॥४॥
इह-भरतक्षेत्रे नाम्ना लुम्पकलेखको गुर्जरत्रायां धरित्र्यां 'लोमेनान्तरपत्रम्' अन्तरेऽन्तरे-मध्यभागे मध्यभागे पत्रमुपलक्षणात् | पत्रे पत्राण्यालापकोद्देशादिकं च छईयित्वा-परित्यज्य २ सिद्धान्तं लिखति. स्मेति गम्यं लिखति स्म,आः खेदे, पापात्मा पापाभीरुरित्यर्थ इति गाथार्थः॥४॥ अथैवं सति किं जातमित्याहमुणिवयणचोअणाए रुसिओ ऊससि भणह व्वयणं । तम्हं भिकखच्छेअं करेमि ता होमि जाओम्मि ॥५॥
मुनिवचनचोदनया-अहो पापात्मा कथं सिद्धान्तं न्यूनीकरोषीत्येवंरूपेण साधुप्रेरणया रुष्ट उच्छ्रस्य-दुःखगर्भितमुच्छासं विमुच्य भणति-जूते,किं?-दुर्वचनं-दुष्टवचनं,तदुल्लेखमाह-यदि युष्माकं मिक्षोच्छेदः-मिक्षादौर्लभ्यं करोमि 'ता' तम्मिति अहं जातो| भवामि, अन्यथा मम जन्म निष्फलमित्यभिप्राय इति गाथार्थः॥५॥ अथ ततोऽपि किं कृतवानित्याह___ इअकयपइण्णचिंतापरेण पावेण तेण पयडिकयं । कुमयं निअनामेणं पावाणं पावकम्मुदया॥६॥
इति-प्रागुक्तप्रकारेण कृता या प्रतिज्ञा सेति कृतप्रतिज्ञा तयाश्चिन्ता-चिन्तनमहोरात्र तदभिप्रायप्रवत्तन तत्र परस्तत्परतेन पापेन-पापात्मना तेन लेखकेन निजनाम्ना-लुम्पाक इति जनोच्या कमतं प्रकटीकृतं, एतादृशं कुतो जातमित्याह-'पावाणं'ति पापानांपापभाजामनन्तसंसारिणां प्राणिनां पापकर्मोदयादनन्तसंसारहेतुबीजभूताशुभकर्मोदयादितिगाथार्थः॥६॥ अथ तस्योपदेशमूलमाह
JOOOOOGHO
॥२३॥