SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥२२॥ लुंपकमतोत्पत्तिः था तु सर्वाण्यपि कुमतानि प्रतिमाद्वेपीण्येव सन्ति, तीर्थद्वेषेण तीर्थसंम्बन्धिषु सर्वेष्वपि वस्तुपु द्वेषस्यैव भावात् , परमेतत् केषांचित्सग्दृशामेव ज्ञानगोचरीभवति, नान्येषां सर्वेषामपीति, लुम्पाकस्तु मिथ्यादृशामपि जिनप्रतिमाद्वेषीति प्रतीतिविषय एवेति प्रतिमाप्रतिपक्षमिति भणितम् , उपदेशवेष-उपदेशो जिनप्रतिमापूजा तावद्धिसात्मिकेत्यादिरूपेण भाषणं वेषश्च-नेपथ्यः कथंचित्साधुवेषा रूपस्ततः समाहारे उपदेशवेषं तदधिकृत्य-तदाश्रित्य यथा जातं तथा वक्ष्ये,कीदृशं तत् कुमतं?-तुच्छानामपि, आसतां चर्मकारतेलादयो म्लेच्छानामपि जुगुप्सनीयं-कुत्साविषयं, तेऽपि तन्मतं कुत्सितकुलेषु कुत्सिताहारपानीयादिग्रहणदर्शनात जुगुप्सन्ति खिसन्ति चेति | जुगुप्सनीयमितिगाथार्थः ॥२॥ अथोपदेशकालाद्याह विक्कमओ अड्डत्तरपन्नरससएहि पावउवएसो। लुपगलिहगो मूलं तस्सवि तस्सेवमुप्पत्ती ॥२॥ विक्रमतः-श्रीविक्रमसंवत्सरादष्टोत्तरपश्चदशशतैः-अष्टाधिकपञ्चदशशतसंवत्सरैर्गतैः१५०८ पापोपदेशः-प्रतिमापूजादिनिषेधरूपस्तस्यापि-उपदेशस्यापि मूलम्-आदिकारणं लुम्पकलेखकः-लुम्पक इति मातापितृदत्तं नाम लेखक इति लिखनकर्मणा जीविका-| कति दर्शितं, तस्य लुम्पकलेखकस्योत्पत्तिरेवं वक्ष्यमाणप्रकारेणेतिगाथार्थः ॥२॥ अथोत्पत्ति दिदर्शयिषुः प्रथमं व्यतिकरमाह नय तित्थाउ अणंतरपरंपरानिग्गयंपि कुमयमिणं । किंतु अकम्हा मिच्छादिद्विसगासा सयंभूअं॥३॥ न च तीर्थाद्-अच्छिन्नपरम्परागतसाध्वादिसमुदायादनन्तरपरम्परा निर्गतमिदं कुमतम् अव्यवधानव्यवधानाभ्यां निर्गत-पृथग्भूतं, अपि विसये, इदं लुम्पकमतं भवति, नहि लुम्पककुमतं तीर्थादनन्तरं साक्षाद्राकारक्तवनिर्गतं,न वास्तनिकादिवत्परम्परानिग्गतं,किंतु | अकस्माद्-असंभावितकारणाद् मिथ्यादृष्टिसकाशाव स्वयंभूतं-खयमेव समुत्पन्न,यद्यपि निनिमित्तकं किमपि न स्यात् ,तथाप्यसंभावित ॥२२॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy