________________
भाप्रवचन-1
परीक्षा ११ विश्राम ॥२९९॥
त्रिविधवादसम्यक्ता
प्यत्यादयोऽपि स्युरिति गाथार्थः ॥५९॥ अथ वर्तमानकालापेक्षया विधिवादे उदाहरणमाहजइ सम्मं जिणधम्म करिज सो हुजऽवस्स वेमाणी । एवं पगोअवयणं असंभवपएऽवि संभवइ ॥६॥
यदि जिनधर्म सम्यग् कुर्यात् तर्हि अवश्यं विमानी-विमानानां समूहो विमानं तद् विद्यते यस्य स वैमानी, इंद्र इत्यर्थः, भवेत् , एवं यद्यालिंगितविधिवादप्रयोगवचनमसंभवपदेऽपि-असंभावितस्थानेऽभव्यादावपि संभवति, यद्यालिंगितवाक्ये आरोपस्यैव 6 प्राधान्यात् , आरोपस्तु सर्वत्रापि समान एवेति गाथार्थः ॥६०॥ अथ कार्यकारणभावमूलकविधिवादोदाहरणमाहसुहकामो जिणपूअं करिज विहिणेव विहीवि सुगिहीणं । भणिआ जिणेण न उणं मुणीण पुप्फाइहेऊहिं॥६॥ | सुखकामो जिनपूजां विधिना कुर्यात् , अत्र सुखजिनपूजयोः कार्यकारणभावात् सप्तमीयात्प्रयोगः, तत्रापि विधिनैव कृता जिनपूजा सुखहेतुः,नान्यथेति,विधिरपि जिनेन सुगृहिणां-श्रावकाणां भणितः,द्रव्यस्तवकरणविधिः सुश्रावकाणामेव स्थात विधिरपि
कैः कृत्वेत्याह-पुष्पादिहेतुमिः, शोभनपुष्पचंदनादिपूजाद्रव्यरित्यर्थः, न पुनरयं विधिमुनीना-साधूनांभणितः,मुनीनां तु श्रावको. |क्तविधिना कृताऽपि पूजा-चातुर्गतिकसंसारपरिभ्रमणहेतुरेवेति न तत्र कार्यकारणभावः, सुगृहीति श्रावकग्रहणेनोत्सूत्रभाषिकृताऽपि न सुखहेतुः, किन्त्वनंतसंसारहेतुरेवेति सूचितं, एतच्च प्रागुक्तमिति गाथार्थः ॥६१॥ अथ पुनरपि विधिवादे उदाहरणद्वयमाह
हिंसाइपरो जीवो पाविजा निरयपमुहदुहजोणिं । पीएज पुडिकामो घयंपि नीरोअदढदेहो ॥६॥
हिंसादिपरः-हिंसामृषादत्ताब्रह्मपरिग्रहेषु तत्परः-आसक्तो जीवः-प्राणी निरयप्रमुखदुःखयोनि-नरकतिर्यगादिदुर्गतिं प्राप्नुयात्, अत्र नरकादिकुयोनेः कारणं हिंसाद्याश्रव एवेति कार्यकारणभावे सप्तमी विधिवादे, तथा नीरोगदृढशरीरः पुष्टिकामो घृतं
॥२९९॥