________________
त्रिविधवादसम्यक्ता
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥३०॥
OBOTOXONOKONOLOCKOXC4980*
पिबेदिति नीरोगदृढशरीरस्य पुष्टिघृतयोः कार्यकारणभावो, न पुनरदृढशरीरस्य पुष्टिघृतयोः, कार्यकारणभावे वर्तमानाऽपि दृश्यते, यथा-'पडंति नरए धोरे, जे नरा पावकारिणो। दिव्वं च गई गच्छंति, चरित्ता धम्ममारिअं॥२"ति, तथाऽपि विधिमार्गे प्रायः सप्तम्येव त्यादिविभक्तिर्भवति, किंच-नात्र केवलकार्यकारणवावः सूचितः, किंतु संप्रति लोक एतादृशो वर्त्तते इति ज्ञापितं, तच्च | वस्तुगत्या यथास्थितवाद एवेतिगाथार्थः । ६२॥ अथ विधिवादे तात्पर्य दर्शयित्वोपसंहारमाह___एवं विहिवाएऽविअ कत्थवि आणा कहिंचि पडिसेहो। कत्थवि उवेहवयणं एवं चरिआइवाएसु ॥३३॥
एवमुक्तोदाहरणप्रकारेण विधिवादेऽपि, चकारोऽग्रे समुच्चयार्थः, 'कत्थवित्ति कुत्रापि आज्ञा सम्यजिनधर्मकृती, कापि प्रतिषेधो हिंसाद्याश्रवे, काप्युपेक्षावचनं नैकान्तेन प्रतिषेधो नैवाज्ञा घृतपानादौ,तथा च विधिवादोऽप्यनेकखरूप इति दर्शिते पाशचंद्रेण | यदुक्तं विधिवादाज्ञयोरैक्यं तन्निरस्तं । अथातिदेशमाह-'एव'मित्यादि, एवं चरितानुवादयथास्थितवादयोरपि बोध्यं, अयं भाव:क्वचिचरितानुवादोऽप्याज्ञारूपः,यथा द्रौपदीश्राविकाविहितः पूजाविधिरन्येषामप्याज्ञारूपः,एवमन्यैरपि कर्त्तव्यमिति, कश्चिच निषेधरूपो यथा कोणिराजकृतः संग्रामविधिः, सर्वेषामपि निषेधरूप एव, नान्यैरित्थं कर्त्तव्यमिति, उपेक्षानुरूपश्चरितानुवादो धनाख्यसार्थवाहेन चिलातीपुत्रव्यापादितपुत्रीमांसभक्षणमित्यादि, एवं यथास्थितवादोऽपि त्रिधा, शाश्वतचैत्यादिवर्णनं यथास्थितवादे सदपि तदनुकूलप्रवृत्त्या जिनाज्ञाऽऽराधिता भवतीतिकृत्वा यथास्थितवादोऽप्याज्ञारूप एव, नरकादिस्वरूपवर्णनं तदनुकूलप्रवृत्त्या जिनाज्ञा | नास्तीति प्रतिषेधरूपो यथास्थितवादः, मेर्वादिवस्तूनां वर्णनं नाज्ञा नवा प्रतिषेधस्तदनुकूलपतिकूलचेष्टयोरसंभवादित्यादिकं विधिवाद इव चरितानुवादयथास्थितवादावपि संपन्नाविति गाथार्थः ।।६३॥ अथाज्ञायाः स्वरूपमाह
KORONGHAGHOLOGROLORG
॥३००।