________________
श्रीप्रवचन
परीक्षा ११.विभामे ॥२९॥
| निद्रायाः प्रमादाप्रमादन
HOROHOROHOUGHOUGHOROROUGHOजार
प्रविशति, क्षोभयति वा पृथिवीं, विमेति वा, 'उदीरइत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेषक्रियामेदसंग्रहा|र्थमाह-तं तं भावं परिणमति'त्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां | क्रमभावित्वेन सामान्यतः तदेजनं मंतव्यं, नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदसंभवादिति, 'तस्स जीवस्स अंतेत्ति | मरणांते 'अंतकिरित्ति सकलकर्मक्षयरूपा, 'आरंभई'त्ति पृथिव्यादीनुपद्रवति 'सारंभई'त्ति संरभते-तेषु विनाशसंकल्प करोति 'समारभईत्ति समारभते-तानेव परितापयति 'संकपो संरंभो परितापको भवे समारंभो। आरंभो उद्दवओ सुद्धनयाणं | विसुद्धाणं ॥२॥" इदं च क्रियाक्रियावतोः कथंचिदभेदः इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तं, अथ तयोः कथंचिद्वेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-'आरंभे'त्यादि, आरंभे अधिकरणभृते वर्तते जीवः, एवं संरंमे समारंभे च, अनंतरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाणे संरंभमाणे समारंभमाणे जीव इत्यनेन प्रथमो वाक्यार्थोऽनु|दितः, आरंभे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतत्वात् दुःखापनायां-मरणलक्षणदुःखमापराणायां अथवेष्टवियोगादिदुःखहेतुप्रापणायां वर्त्तते इति योगः, तथा शोकापनायां-दैन्यप्रापणायां,वर्त्तते इति योगः, 'जूरावणाए'त्ति शोकातिरेकात् शरीरजीर्णताप्रापणायां,परितापनायां-शरीरसंतापे वर्त्तते, क्वचित् पठ्यते 'दुक्खणयाए' इत्यादि,तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणाए' इत्यधिकमधीयते तत्र किलामणयाएत्ति ग्लानि नयते, उद्दावणाएत्ति उत्रासते इति भगश०३ उ०३, अत्रारंभे प्रवृत्तिरप्यारंभक्रियायां देशविरतौ प्रत्याख्याता, अप्रवृत्तिरप्यप्रत्याख्यानक्रियायामप्रमाणतया दर्शिता, मिथ्यादृशामारंभपरिग्रहादी प्रवृत्तिरप्रवृत्तिविरतिं प्रतीत्याविशेषेण कर्मबंधनहेतुत्वात् प्रमाणमेव द्वे अपीति सम्यग्धिया विचार्य प्रमाद
HOMGHORIGHORIGHDOHORIGHONG