SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२७८॥ GIOISIONGOGGONGHOK बलवच्चे हेतुमाह - 'उस्सग्ग' चि यतः सोऽपवादो नृपवदुत्सर्गपालनार्थं जिनैर्भणितः, यथा प्रजापालनार्थं प्रजयाऽभिषेच्यावस्थापितो राजा प्रजाभ्योऽपि बलवान् भवेत् तथाऽपवादोऽप्युत्सर्गेणैव व्यवस्थापितः उत्सर्गादपि बलवान्, तत्कथमिति चेत् शृणु, उत्सर्गों ब्रूते - ननु भो अपवाद ! अस्सच्छिष्यादिकं त्वदायत्तमेवेति लदाज्ञयैव वयं वर्त्तिष्यामहे, अपवादमंतरेणोत्सर्गः स्थातुं न शक्नोतीति भाव इति गाथार्थः ||२७|| अथोत्सर्गापवादयोर्बलस्थानकमाह उस्सग्गो खलु पगई अववाओ पुह (भू) वइत्ति सठ्ठाणे । परठाणे असमत्था दोऽवि अ ते गरहणिज्जावि ॥ २८ ॥ उत्सर्गः खलुरवधारणे प्रकृतिः - प्रजालोक इत्यर्थः, अपवादः पृथिवीपतिः- राजेति, क्व १ - 'स्वस्थाने' उत्सर्गस्थाने - अपवादानवकाशे 'अभावोपाधिको ह्युत्सर्ग' इति वचनात् यावदपवादप्रयोजनं न पतति तावदुत्सर्ग एव बलवान्, अपवादस्याने चापवादः, अपवादस्थानं कारणं, उत्सर्गनिर्वाहकद्रव्याद्ययोगः, उत्सर्ग सामर्थ्य निरोधकद्रव्यादिसामग्रीत्यर्थः, तन्निराकरणार्थमपवादो राजस्थानीयः, यथा राजा प्रजापीडाकारिचौरादिजन निवारकस्तथा तथाविधद्रव्यादिसामग्र्या निवारकोऽपवादः, एतौ द्वावपि परस्थानेअपवादस्थाने उत्सर्गः उत्सर्गस्थाने चापवाद इति स्थानकव्यत्यये असमर्थौ-न सामर्थ्यभाजौ भवतः, अपि- पुनर्गर्हणीयौ - जुगुप्सनीयौ अहो मर्यादारहितौ द्वावपि प्रवर्त्तेते द्वयोरप्याश्रय इत्यर्थ इति गाथार्थः ||२८|| अथ कीदृशी प्रकृतिः कीदृशश्च राजेति उत्सर्गाप| वादयोर्दृष्टान्तीकर्तुं दर्शयति पगई सहावसिद्धा कारणिओ होइ भूवई निअमा । पगईधणउवजीवो णाएणं तीह रक्खठ्ठा ॥२९॥ प्रकृतिः स्वभावसिद्धा भवति, न पुनः केनापि स्थापिता, भूपती - राजा तुरध्याहार्यो, भूपतिस्तु नियमात् कारणिकः - कारण - DIGHONGHODIGIONS DIGHIOINGHGH आचारस्योपदेशः ॥२७८॥
SR No.600378
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy