________________
आचारस्योपदेश
मीप्रवचन
परीक्षा ११ विश्रामे ॥२७६॥
HIROIGHLIGHORIGIOHIGHING
संकिलेसे दसणसंकिलेसे चरिचसंकिलेसे" इत्यादि, अत्र ज्ञानाचाराधने जिनाज्ञा विराधनेच नेति संपन्ने साधर्मिकवात्सल्यादिकमपि जिनाज्ञयैव सिद्धं तदा पाशस्य कदाशा दूरत एवापास्तेति गाथार्थः ॥२४॥ अथ ज्ञानादीनामुपकरणानि व्यक्क्या मूत्रत एवाहपोत्थाई उवगरणं णाणस्स तहा जिणिंदभवणाई । दंसणउवगरणं खलु पुत्तिप्पमुहा य चरणस्स ॥२५॥
पुस्तकादि ज्ञानस्योपकरणं आदिशब्दात नीरोगशरीरादिकं प्रागेवोक्तं बोध्यं,तथा जिनेन्द्रभवनादि दर्शनोपकरणं, आदिशब्दात जिनप्रतिमादिग्रहः, खलु निश्चये, 'पुत्तिप्पमुह'त्ति मुखवस्त्रिकाप्रमुखं, आदिशब्दात् रजोहरणकल्पादिग्रहस्तच्चारित्रोपकरणमिति, ननु ज्ञानदर्शनाभ्यां विना चारित्रस्यैवासंभवात् यथा ज्ञानदर्शने साधूनां चारित्रहेतू एव भवतस्तथा तदुपकरणान्यपि चारित्रोपकरणान्येव साधूनां भवन्तु, चारित्रस्यैवोपष्टंभकत्वात् इति चेत् , सत्यं, ज्ञानदर्शनोपकरणानां साक्षात् ज्ञानदर्शनयोरेव हेतुत्वात् , | चारित्रस्यापि परम्परया तथात्वेऽपि मुख्यवृत्तिमधिकृत्य तथैव व्यवहारस्य युक्तत्वात् , चारित्रव्यतिरिक्तयोरपि ज्ञानदर्शनयोरुप| कर्तृत्वाच्च पृथगेव व्यपदेशो युक्त इति गाथार्थः ।।२५।। अथ उत्सर्गापवादयोरुत्सर्गत एव यथासंभवं स्थानकान्याह
उस्सग्गो मुणिधम्मे अववायपयंमि इअरमग्गो य । इक्किक्कोऽवि अ दुविहो एवं सिद्धंतसुपसिद्धो ॥२६॥
मुख्यवृत्त्या उत्सर्गो मुनिधर्म:-साधुमार्गो, यतः तीर्थकृतः प्रथममुत्सर्गतः पंचमहाव्रतात्मकं साधुमार्गमेवोपदिशति, तत्राक्षमानुद्दिश्यापवादपदे श्रावकसंविग्नपाक्षिकमार्गद्विकमुपदिशंति, अतः साधुमार्गापेक्षया तावपवादरूपावेव, तेषु त्रिष्वप्युत्सर्गापवादसम्भवात् प्रत्येकमेकैकोऽपि च द्विविधः, एवम्-अमुना प्रकारेण सिद्धान्तसुप्रसिद्धः-जिनप्रवचनेऽतिशयेन प्रसिद्धः, अयं भावःमुख्यवृत्त्योत्सर्गरूपोऽपि साधुमार्गोऽनेकापवादपदसंयुक्तः स्थविरकल्पः, स्थविरकल्पे झुगत्सर्गापवादयोस्तौल्यात् ,यदागमः 'जावइया
GHOUGHOUGHOROUGHOUGHO
॥२७॥