________________
भोप्रवचन
परीक्षा १२विश्रामे ॥२७५॥
DISHONGEOGROUGHAGHOROO
मतेषु न संभवत्येवेति प्रसंगतो वोध्यं, तथा दर्शनाचारोऽप्यष्टधैव, 'निस्संकि निकखि निम्वितिगिच्छा अमृढदिट्ठी अ। उववूह : आचारथिरीकरणे वच्छल्ल पभावणे अ॥१॥"त्ति श्रीदशवकालिकनियुक्ती,एतदव्याख्यान-निःशंकितः-देशसर्वशंकारहितः, तत्र देश-10 स्योपदेश | शंका समाने जीवत्वे कथमेको भव्यः१ अपरस्त्वभव्य इति शंक्यते, सर्वशंका-सर्वमेवेदं परिकल्पितं भविष्यतीति,तथा निष्कांक्षितःदेशसर्वकांक्षारहितः, देशकांक्षा एकं दर्शनं कांक्षति, सर्वकांक्षा तु सर्वाण्येव, निर्विचिकित्सः-साध्वेव जिनदर्शनं, किन्तु प्रवृत्तस्यापि | | सतो ममासात् फलं भविष्यति न वा भविष्यतीति,क्रियायाः कृषिबलादिषभयथोपलब्धेरितिविकल्परहितो निर्विचिकित्स उच्यते,
यद्वा निर्जुगुप्सः-साधुजुगुप्सारहितः, अमृढदृष्टिः-बालतपस्वितपोविद्यातिशयदर्शनैर्न मूढा-स्वरूपात न चलिता दृष्टिः-सम्यग्| दर्शनरूपा यस्यासावमूढदृष्टिः, उपबृंहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन तद्-| |वृद्धिकरणं, स्थिरीकरणं-धाद्विषीदमानानां तत्रैव स्थापन, वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, वात्सल्यं-समानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथनादिमिस्तीर्थख्यापना, अष्ट चेत्यष्टप्रकारो दर्शनाचारः इति दश वृत्ती, दर्शनोपकरणानि तु जिनभवनबिंबादीनि प्रतीतानि, तथा चारित्राचारोऽप्यष्टधा, यथा-"पणिहाणजोगजुत्तो पंचहि समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अहविहो होइ नायव्वो ॥१॥” इति दश नि०, एतद्वृत्तिर्यथा प्रणिधानं-चेतःखास्थ्यं तत्प्रधाना योगाः पणिधानयोगास्तैर्युक्तः२ पंचमिः समितिभिः तिसृभिर्गुप्तिभिर्यः प्रणिधानयोगयुक्तः, पंचसु समितिषु तिसृषु गुप्तिसु वा, एष चारित्राचारोऽष्टविधः इति श्री दश० वृत्ती, चारित्रोपकरणान्यपि रजोहरणादीनि साधूपकरणानि, एवं ज्ञानादीनामाराधनं यथोक्ताचारा|नुपालनेनैव स्यात् , अन्यथा तदाचाराणामपरिपालने ज्ञानादीनां विराधना भणिता,यदागमः-"तिविहे संकिलेसे पं०, तं-नाण- IC२७ ता
OUGOLGROGoनामा