________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२६८||
धम्मे चेवेति श्रीस्थानाङ्गे (७२), एतदूतिर्यथा - 'दुबिहे 'त्यादि, दुर्गतौ प्रपततो जीवान् सुगतौ च तान् धारयतीति धर्मः, श्रुतं - द्वादशांगं तदेव धर्मः श्रुतधर्मः चर्यते-आसेव्यते तत् तेन वा चर्यते गम्यते मोक्ष इति चरित्रं - मूलोत्तरगुणकलापः तदेव धर्मश्चरित्रधर्मः । 'सुयधम्मे' त्यादि, सूच्यंते सूत्र्यंते वा अनेनेति सूत्रं सुस्थितत्वेन व्यापित्वेन च सुष्ठुक्तत्वाद् वा सूक्तं सुप्तमिव वा सुप्तमव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं- "सिंचः खरइ जमत्थं तम्हा० सुत्तपिव सुठिअवावित्तओ सुबुत्तंति" अते-अधिगम्यते अर्थ्यते - वाच्यते बुभुत्सुमिरित्यर्थः - व्याख्यानमिति, आह च - "जो सुत्तामिप्पाओ सो अत्थो अजए य जम्हत्ति ।" 'चरिते' त्यादि, अगारं - गृहं तद्योगादगाराः - गृहिणस्तेषां यश्चारित्रधर्मः सम्यक्त्वमूलाणुत्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरं अगारं नास्ति येषां ते नगारा :- साधव इति । अत्र साधुधर्मवत् श्रावकधर्मोऽप्यविशेषेणैव भणितः, तेन यदि यतिधर्मे जिनाज्ञा तर्हि गृहिधर्मेऽपि, तस्यापि प्रतिपत्तेः गौतमादेरिवानन्दश्रावकादेरपि श्रीमहावीरसमीप एव सद्भावात्, अथ गृहिधर्मे यदि नाज्ञा तर्हि साधुधर्मेऽपि समानं, इष्टापत्तौ चाज्ञारहितो धर्मो न फलवान्, यदुक्तम् - " आणाइ तवो आणाइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो पलालपूलुव्व परिहाइ ॥१॥"त्ति, तथा 'आणानिदेसकरे गुरूणमुववायकारए। इंगियागारसंपन्ने, से विणीपत्ति बुच्च ॥१॥ इतिश्रीउत्त०, विशिष्टकष्टस्य कर्मक्षयं प्रत्यकारणत्वात्, किंतु जिनाज्ञाया एव कर्मक्षयं प्रति कारणत्वात्, किंच- यदि धर्मकृत्येऽपि जिनाज्ञा न स्यात् तर्हि पापकृत्ये वक्तव्या १, अत्यर्थं स्वरूपेणैव तस्या असंभवः स्यात्, तद्विषयाभावात्, न चेष्टापत्तिः, अग्रे तस्यास्तद्विषयाणां च दर्शयिष्यमाणत्वादिति गाथार्थः ||२१|| अथ धर्ममात्रे जिनाज्ञैवेति व्यवस्थापनाय प्रथमं धर्मस्वरूपमुक्वा विवेचयभाइ
OHORO
DIGONG
SHONGKONGHOT
धर्मस्य सावद्यत्वाभावः
।। २६८ ।।