________________
भीषचनपरीक्षा २१विभामे ॥२६७॥
सावपत्ताभाषा
GROUGHOUGHOUGHOSHOOKलाख
| यद्वस्तु यत्स्वरूपेण शीतव्यवहारभाक् तद्वस्तु तत्स्वरूपेणोष्णव्यवहारमप्यवाप्नुयात् , शीतोष्णस्पर्शयोर्विरोधस्थानादिसिद्धत्वादिति गाथार्थः ॥१९॥ यस्मादेवं ततः किमित्याह- . तम्हा धम्मो दुविहो अगारधम्मोऽणगारधम्मो य। आरंभकलुस पढमो बीओ आरंभरहिओ य ॥२०॥
तस्मात् धर्मो द्विविधः, द्वविध्यं तावद् अगारधर्मोऽनगारधर्मश्चेति अर्थात् (अचारित्रलक्षणः) चारित्रलक्षणच, अनयोः को मेद इत्याह-'आरंभे'त्यादि, आरम्भकलुषः प्रथमः, आरम्भेण-आरम्भाध्यवसायेन 'कडसामइओवि उदिष्टकडं सि मुंजेत्ति निशीथचूर्णिवचनात् कलुषः-आविलः प्राकृतत्वाद्विभक्तिलोपः आरभ्भकलुषः प्रथमोऽगारधर्मः,च पुनरर्थे,यः पुनरारम्भरहित:सर्वथाऽऽरम्भाध्यवसायरहितः स साधुधर्म एव, यतस्तस्याजीविकाप्रकारोऽपि जिनैर्निरवद्य एवामिहितः, यदागम:-"अहो जिणेहिं | असावजा, वित्ती साहूण देसिया। मोक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥२॥" श्रीदशवैका० इति गाथार्थः ॥२०॥ अथ | पाशेन यदुक्तं-श्रावकधर्मश्चरितानुवादे, परं जिनाज्ञारूपे विधिवादे न भवति तदू दयितुमाहएवं धम्मे दुविहे जिणआणा अण्णहा न धम्मोवि । आणारहिओ धम्मो धम्मो जइ केरिसोऽहम्मो॥२१॥
एवं प्रागुक्तस्वरूपे द्विविधे, अपिरध्याहार्यः, द्विविधेऽपि धर्मे साधुधर्मश्रावकधर्मलक्षणेऽपि जिनाबा-तीर्थकृतामाझैव,अन्यथाआज्ञामन्तरेण धर्मोऽपि न भवेत , तत्र हेतुमाह-यद्याज्ञारहितो धर्मो धर्मो भवेत तर्हि अधर्मः कीदृशोऽपरः, अयमेवाधर्मः, तथा |च धर्मस्तावदेकविध एव संपद्यते, तच न युक्तं, यदागमः-"दुविहे धम्मे पपत्ते तं-सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुविहे पं०, तं०-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे पं०, तं०-अगारचरिचधम्मे चेव अणगारचरित
DIGHOUGHOUGHROUGHOाजाला