________________
भीप्रवचन
परीक्षा
१०विश्रामे ॥२५७॥
भGOGHAGHORGHOUGHाजाल
ज्ञातवान्-अहो लुम्पकमपास्य प्रतिमाऽभ्युपगता, कष्टं तपः करोति, अत एतदीयं वचः सत्यमिति तदुक्तमुन्मार्गमाश्रितः, स च | प्रवचनप्रतिकूलो नियमादनन्तसंसारकारणमिति लोकानामशुभकर्मोदय इति गाथार्थः ॥३॥ अथ लोकः किं कृतवानित्याह
आयावणभूमीए आयावणपरायणं जणो दहुँ । तस्स समीवे भण्णइ मग्गिजा जं वयं देमो ॥४॥
आतापनाभूमौ आतापनापरायणम् अर्थात् तं बीजं दृष्ट्वा जनो नाम्ना जैनोऽपि प्रवचनपरमार्थानभिज्ञस्तत्समीपे भणति-भो। बीजर्षे! त्वं मार्गय यद्वयं दद्य इति जनः कृतवानिति गाथार्थः॥४॥ अथैवमुक्ते बीजः किं कृतवानित्याह
सो उवएसासत्तो भणेइ मुक्खोऽवि पुण्णिमापक्खं । पंचमिपज्जोसवणं कुणंतु अम्हाण निस्साए ॥५॥
स उपदेशाशक्तः-उपदेशदाने सामर्थ्यरहितः आतापनाकष्टेनैव जनं व्यामोहयन् मूर्योऽपि सन् भणति-यदि समीहितं दस्थ तर्हि पूर्णिमापाक्षिकं पंचमीपयुषणां च अस्माकं निश्रया कुर्वन्त्विति बीजाख्यो भणितवानिति गाथार्थः ॥५॥ अथ पुनरपि लोकः किमुक्तवानित्याहलोओऽविय परमत्थं अमुणंतो भणह होउ एवंपि । कालऽणुभावा वुडू अवस्सभवियब्वयाजोगा ॥६॥
लोकोऽपि च परमार्थ-जिनवचनरहस्यमजानानो भणति-एवमपि भवतु, एवं मूर्खादपि प्रवृत्तमेतनाम्ना मतं कालानुभावात |अवश्यभवितव्यतायोगात वृद्धम् ,अन्यथा मूर्खशेखरनिर्नामकादकिश्चित्करमनुष्यमात्रादपि एतावद्विस्तारयायि कुमतं कथं प्रवतेति गाथार्थः॥६॥ अथास्य स्वरूपमाह
बेसो लुंपकसरिसो नवरं दंडेण होइ संजुत्तो। उवएसो पुण आगममयसरिसो होइ पाएणं ॥७॥
GHAGRONGHOUGROUGHONGKाजाजल
॥२५७॥